________________
षष्ठोऽध्यायः ।
३७७
I
वितनुतां स्फीतीकरोतु भावयत्वित्यर्थः । कोसौ ? आर्यः साधुः । काम् ? तितिक्षां क्षमाम् । कथम् ? सर्वथा मनसा वाचा कायेन च । कथम् ? इति । किमिति ? यद्वबन्ध बद्धवानहमबुधोऽज्ञः । किं तत् ? किल्विषं पापम् । किंविशिष्टम् ? क्रूरमवश्यभोग्यकटुफलत्वादत्युग्रम् । किं कुर्वन् ? विराध्यन्नपकुर्वन् । कम् ? इममपकर्तारम् क ? प्राकू वा पूर्वभवेऽस्मिन्वा इहभवे । बबन्धेत्यत्रपापबन्धनस्य प्रयोक्तरक्षाविषयत्वात्परोक्षम् । तस्मादयमपकर्ता अधुना संप्रति केन वार्यो निषेद्धुं शक्यः । न केनापीत्यर्थः । किं कुर्वन् ? शपन् आक्रोशन् शपथकाविषयं कुर्वन् । कम् ? मां कृतापराद्धम् । कथम् ? कामं यथेष्टम् । आनन्वा चर्मयष्ट्यादिना ताडयन्माम् । निघ्नन्वा प्राणैर्वियोजयन्माम् । कस्मात् ? तत्पारतन्त्र्यात् तस्य किल्बिषस्य पारवश्यात् । तत्परतन्त्रः सन्नित्यर्थः । कथम् ? ध्रुवं निश्चितम् । अथवा भवति । किं तत् ? तत् स्वोपात्तं किल्बिषम् । किंविशिष्टम् ? योग्यमुचितम् । किं कर्तुम् ? भोक्तम् । कदा ? अद्यैव इहैव भवे, न भवान्तरेषु । कस्य ? मे मम तद्वन्धकस्य । किंविशिष्टस्य ? प्रशमपरिणतस्य माध्यस्थ्यमास्थितस्य । किंविशिष्टं तत् ? अवश्यभोग्यं यतः 'अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्' इति वचनात् ॥
परैः प्रयुक्ते सत्याक्रोशादौ क्रोधनिमित्ते चित्तं प्रसादयतः स्वेष्टसिद्धिमाचष्टेदोषो मेस्तीति युक्तं शपति शपति वा तं विनाज्ञः परोक्षे, दिया साक्षान्न साक्षादथ शपति न मां ताडयेताडयेद्वा । नासून मुष्णाति तान्वा हरति सुगतिदं नैष धर्मं ममेति, स्वान्तं यः कोपतौ सति विशदयति स्याद्धि तस्येष्टसिद्धिः ७
हि स्फुटं यस्माद्वा तस्येष्टसिद्धिरभिमतार्थ संप्राप्तिः स्यात् । क्षमाया हि व्रतशील परिरक्षणमिहामुत्र च दुःखानभिष्वङ्गः सर्वस्य जगतः सन्मानसत्कारलाभप्रसिद्ध्यादिश्च गुणः स्यात् । यः किम् ? यो विशदयति प्रसादयति । किं तत् ? स्वान्तं मनः । व सति ? कोपहेतौ क्रोधकारणे शताडनादौ । कथम् ? इति । किमिति ? एष इत्यन्तदीपकत्वात् सर्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org