________________
अनगारधर्मामृते--
कथम् ? बहुधा बहुभिः प्रकारैः । अन्तस्तत्त्वस्यापि निर्दाहकत्वात् कोपस्यापूर्वामित्वम् । तथा कोप:कोप्यपूर्वोन्धकारस्तमः । किं कुर्वन् ? उपनन् । प्रतिबध्नन् । काम् ? दृशं दृष्टिम् । किंविशिष्टाम् ? उभयीं चाक्षुषी मानसी च । कथम् ? सह युगपत् । केषाम् ? धीमतामपि बुद्धिमतां, किं पुनरबुद्धीनाम्। अन्तर्दृष्टेरप्युपघातकत्वात्कोपस्यापूर्वतमस्त्वम् । तथा कोपः कोप्यपूर्वो ग्रहो भूतः । किं कुर्वन् ? उपजनयन् निर्वर्तयन् । कान् ? अपायान् विनिपातान् । कथम् ? अभि । किम् ? जन्मजन्म भवेभवे । वीप्सायामभेः कर्मप्रवचनीयत्वात्तद्योगे द्वितीया । कथं कृत्वा ? अस्तत्रपं तिरस्कृतलजम् । भवान्तरेष्वप्यपायहेतुत्वात्कोपस्यापूर्वग्रहत्वम् । यत एवं तत् तस्मात्सेव्यतामाराध्यतां मुमुक्षुभिः । कासौ ? क्षान्तिदेवी क्षमादेवता । किंविशिष्टा ? आप्तश्रुतिरसलहरी । यो यत्रावञ्चकः स तत्राप्तः । आप्ताच्छुतिः श्रवणं यस्य स आप्तश्रुतिः परमागमः। तस्य रसोर्थो ज्ञानं च, पक्षे जलम् । तस्य लहरी वेलोद्गतिः परमागमार्थज्ञानयोलस्येवोल्लासहेतुत्वात् । किं कर्तुम् ? लोप्तुं छेत्तुम् । कम् ? कोपम् ॥
उत्तमक्षमाया माहात्यं स्तोतुमाहयः क्षाम्यति क्षमोप्याशु प्रतिकर्तुं कृतागसः । कृत्तागसं तमिच्छन्ति शान्तिपीयूषसंजुषः ॥५॥
इच्छन्ति वान्छन्ति । के ? क्षान्तिपीयूषसंजुषः क्षमामृतं सम्यक्सेवमानाः साधवः । कम् ? तं पुरुषम् । किंविशिष्टम् ? कृत्तागसं छिन्नपापम् । यः किम् ? यः क्षाम्यति क्षमां करोति । किंविशिष्टोपि ? क्षमोपि समथोपि । किं कर्तुम् ? प्रतिक प्रतिविधातुम् । कान् ? कृतागसः कृतापराधान् । कथम् ? आशु सद्यः ॥
क्षमाभावनाविधिमाहप्राग्वास्मिन्वा विराध्यन्निममहमबुधः किल्बिषं यद्धबन्ध, क्रूरं तत्पारतन्त्र्याद् ध्रुवमयमधुना मां शपन्काममानन् । निघ्नन्वा केन वार्यः प्रशमपरिणतस्याथवावश्यभोग्यं, भोक्तुं मेद्यैव योग्यं तदिति वितनुतां सर्वथार्यस्तितिक्षाम् ६॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org