________________
षष्ठोऽध्यायः ।
कषायाणामपाय भूयस्त्वातिदुर्जयत्त्रप्रकाशतपुरस्सरं जेयत्वमुपदर्श्य तद्विजये परं स्वास्थ्यमावेदयति
जीवन्त: कणशोपि तत्किमपि ये घ्नन्ति स्वनिघ्नं मह, - स्ते सद्भिः कृतविश्वजीवविजया जेयाः कषायद्विषः । यन्निर्मूलनकर्मठेषु बलवत्कर्मारिसंघाचिता, - मासंसारनिरूढबंधविधुरा नोत्क्राथयन्ते पुनः ॥ ३ ॥
myvangskj
३७५
जया जेतव्याः । के ते ? कषायद्विषः क्रोधादिशत्रवः । कैः ? सद्भिः साधुभिः । किंविशिष्टाः ? कृतविश्वजीवविजयाः । कृतो विश्वेषां सर्वेषां जीवानां विजयोऽभिभवो यैस्त एवम् । ते के ? ये घ्नन्ति नाशयन्ति । किं तत् ? तत् किमप्यनिर्वचनीयं महस्तेजः । किंविशिष्टम् ? स्वनिघ्नं स्वाधीनम् । किं कुर्वन्तः सन्तः ? जीवन्तः प्राणन्तः । कियत् ? कणशोपि किं पुनर्वहुशः । तथा नोत्क्राथयन्ते न हिंसन्ति । के ? बलवत्कर्मारिसंघाः बलवता समर्थानां कर्मारीणां ज्ञानावरणादिशत्रूणां संघाः संघाताः । केषाम् । चितां चेतनानाम् । कर्मणि षष्ठी। किंविशिष्टाः ? आसंसारनिरूढबन्धविधुराः संसारात्प्रभृति निर्वाहितपारतन्त्र्यदुःखाः । कथम् ? पुनर्भूयः । केषु ? यन्निर्मूलनकर्मठेषु येषां कषायद्विषां निर्मूलने निःशेषक्षपणे कर्मठा: कर्मशूरा यन्निर्मूलनकर्मठास्तेषु पुरुषेषु ॥ पीठिका |
अथ कोपस्यानर्थैकफलत्वं प्रकाश्य तज्जयोपायमाह
कोपः कोप्यग्निदन्तर्बहिरपि बहुधा निर्दहन् देहभाजः, कोपः कोप्यन्धकारः सह दृशमुभयीं धीमतामप्युपन्नन् । कोपः कोपि ग्रहोsस्तत्रपमुपजनयन् जन्मजन्माभ्यपायां, स्तत्कोपं लोनुमाप्तश्रुतिरसलहरी सेव्यतां क्षान्तिदेवी ॥ ४ ॥
Jain Education International
AM
वर्तते । कोसौ ? कोपः । किंविशिष्टः ? कोप्यपूर्वोनिः । किं कुर्वन् ? निर्दहन् निष्प्रतीकारं भस्मीकुर्वन् माहात्म्योच्छेदात् । कान् ? देहभाजः शरीरिणः । क्व ? अन्तरध्यात्मम् । न केवलं, बहिरपि चक्षुरादौ च ।
For Private & Personal Use Only
www.jainelibrary.org