________________
३७४
अनगारधर्मामृते
यश्च व्रतानि च समितयश्च गुप्तिव्रतसमितयो वसूनि वज्रमुक्ताफलादिरखानीव परमाल्हादहेतुत्वात् । शोभनानि गुप्तिव्रतसमितिवसूनि सुगुतिव्रतसमितिवसूनि । तैर्भ्राजते ताट् तस्मिन् । तथा बोधाब्जराजि । बोधो ज्ञानमब्जश्चन्द्र इव, जगदाल्हादकत्वात् । बोधाब्जेन राजते बोधाब्जराट्, तस्मिन् । तथा मनोन्मनोर्मरतत्रयमहिमभरव्यक्तिहप्ते मग्ना धृतिभावनावष्ट. म्भात्तिरोभूताः स्वकार्यकरणाक्षमा उन्मनोर्मय उद्भूतपरीषहा यत्र तन्मनोमनोर्मिं तपः । पक्षे मग्नाः केचिन्निमीलिताः केचिच्चोन्मग्ना उन्मीलिता कर्मयस्तरङ्गा यत्र स मनोन्मनोर्मिस्तोयधिः । तथा रत्नत्रयमहिमभरः । रत्नत्रयस्य महिमा यत्रासौ रत्नत्रयमहिमा रत्नत्रयपरिणत आत्मा । तस्य भरो घातिकर्मक्षपणयोगापहारोघातिकर्मक्षपणसमर्थः शक्त्य तिशयस्तपःपक्षे । तोयविपक्षे तु "जातौ जातौ यदुत्कृष्टं तत्तद्रत्नमिहोच्यते" इति, खानामैरावतकौस्तुभ पारिजातानां त्रयं रत्नत्रयम् । तस्य महिमा माहात्म्यम् । तस्य भरोअतिशयो रत्नत्रयमहिमभरः । रत्नत्रयमहिमभरस्य व्यक्तिराविर्भावः । तया ..तो गर्वितः संभावितात्मोत्कर्षः । मग्नोन्मनोर्मिश्चासौ रत्नत्रयमहिमभरव्यतितश्च मनोन्मनोर्मिरलत्रयमहिमभरव्यक्तिप्तस्तस्मिन् ॥
I
दशलक्षणं धर्मं व्याचष्टे
क्रूरक्रोधाद्युद्भवाङ्गप्रसङ्गेप्यादत्तेा यन्निरीहः क्षमादीन् । शुद्धज्ञानानन्द सिद्ध्यै दशात्मा ख्यातः सम्यग्विश्वविद्भिः स धर्मः
ख्यातः कथितः । कोसौ ? स धर्मः । किंलक्षणः । दशात्मा दश आत्मानो रूपाणि यस्य । कथम् ? सम्यगड विपरीतम् । कैः ? विश्वविद्भिः सर्वज्ञैः । कस्यै ? शुद्धज्ञानानन्द सिद्ध्यै निरावरणबोधप्रमोदसंप्रात्यर्थम् । यत्किम् ? यदादत्ते स्वीकरोति । कोसौ ? साधुः । कान् ? क्षमादीन् । क्रोधोत्पत्तिनिमित्तानां सन्निधानेपि कालुष्योपरमः क्षमा । क्षमा आदियेषां मार्दवादीनामात्मपरिणामानां त एवम् । कथंभूतः सन् ? निरीहो लाभादिनिरपेक्षः । क्व सति ? क्रूरेत्यादि । क्रूरा दुःखदा दुर्निवारा वा क्रोधादयः । तेषामुद्भव उद्भूतिः । तस्याङ्गानि कारणानि । तेषां प्रसङ्ग उपनिपातस्तस्मिन् क्रूरकोधाद्युद्भवाङ्गप्रसङ्गेपि । कथम् ? अद्धा व्यक्तं झटिति वा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org