________________
अथ षष्ठोध्यायः॥ ६॥
अथैवमुक्तलक्षणरत्नत्रयात्मनि मुक्तिवर्त्म नि महोद्योगमनुबद्धुमनसां तापत्रयोच्छेदार्थिनां साधूनां सम्यक्तपआराधनोपक्रमविधिमभिधत्तेदृग्वज्रद्रोण्युपनेऽद्भुतविभववृषद्वीपदी स्फुटानु,प्रेक्षातीर्थे सुगुप्तित्रतसमितिवसुभ्राजि बोधाब्जराजि । मनोन्मग्नोमिरत्नत्रयमहिमभरव्यक्तिदृप्तेभियुक्ता, मज्जन्त्विच्छानिरोधामृतवपुषि तपस्तोयधौ तापशान्त्यै ॥१॥
मजन्तु ब्रुडन्तु स्नान्तु वा । के ते ? अभियुक्ता नित्योद्योगाः साधवः । क? तपस्तोयधौ। रजत्रयाविर्भावार्थमिच्छानिरोधस्तपः । तपस्तोयधिः समुद्र इव, दुरवगाहत्वात् । किंविशिष्टे ? इच्छानिरोधामृतवपुषि । इच्छा मोहनीयकर्मजनितवान्छा । इच्छाया निरोधो निवारणं निग्रहश्च इच्छानिरोधः । इच्छानिरोधोऽमृतमिव तापशान्तिहेतुत्वात् अमृतं चात्र पीयूषं पीयूषतुल्य जलं वा । इच्छानिरोधामृतं वपुः शरीरं यस्य तत्तथोक्तम् । कस्यै ? तापशान्त्यै मानसिकवाचनिककायिकानां सहजशारीरागन्तूनां वा दुःखानामुच्छेदार्थम् । किंविशिष्टे ? दृग्वज्रद्रोण्युपन्ने । वज्रद्रोणी वज्रमयं नावाकारं समुद्राधिकरणम् । दृक् सम्यक्त्वं वज्रद्रोणीव समुद्रस्येव तपसो वलवदधिष्ठानत्वात् । दृग्वजद्रोणी उपन्न आश्रयो यस्य स एवम् । तथाऽ. द्भुतविभववृषद्वीपदीप्रे। वृषा उत्तमक्षमादयो दशधर्मा द्वीपा अन्तरीपाणि । अद्भुतो विस्मयकरो विभवो विभूतिर्येषु तेऽद्भुतविभवाः । वृषा द्वीपा इव, देवानामिव मुमुक्षूणां नित्यसेव्यत्वात् । अद्भुतविभवाश्च ते वृषद्वीपाश्चाद्भुतविभववृषद्वीपाः। तैर्दीप्रे दीपनशीले। तथा स्फुटानुप्रेक्षातीर्थ । अनुप्रेक्षा अनित्यादिभावनाः । तीर्थानि प्रवेशघट्टाः । अनुप्रेक्षास्ती
नीव, तोयधेरिव तपसोऽन्तःप्रवेशहेतुत्वात् । स्फुटानि प्रकटानि अनुप्रेक्षातीर्थानि यस्य स एवम् । तथा सुगुप्तिव्रतसमितिवसुभ्राजि । गुप्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org