________________
अनगारधर्मामृते
दातुर्विशुद्धता देयं पात्रं च प्रपुनाति सा । शुद्धिर्दयस्य दातारं पुनीते पात्रमप्यदः ॥ पात्रस्य शुद्धिर्दातारं देयं चैव पुनात्यतः । नवकोटिविशुद्धं तद्दानं भूरिफलोदयम् ॥
३७२
नवकोटिभिः शुद्धेन भक्तादिना उपाजेकृतानि बलाधानयुक्तानि कृतानि निजवपूंषि निजशरीराणि यैस्ते नवकोटी शुद्धभक्ताद्युपा जेकृत निजवपुषः । निजाम्यात्मोपकारकारकाणि सिद्ध्यनुकूलानि । तनुसुहृद इति वा पाठः । तन्त्र, तनुः शरीरमेव सुहृन्मित्रमनुकूलकारणत्वात् तनुसुहृत् नवकोटीशुद्धभक्ताद्युपाजेकृतस्तनुसुहृद्यैस्त एवमिति व्याख्येयम् । इति भद्रम् |
( ग्रन्थसंख्या ६०९ )
यो धर्मामृतमुद्दधार सुमनस्तृप्त्यै जिनेन्द्रागम, - क्षीरोद शिवधीर्निमध्य जयतात्स श्रीमदाशाधरः । भव्यात्मा हरदेव इत्यभिधया ख्यातश्च नन्द्यादिमं, टीका शुक्तिमचीकरत्सुखमिमां तस्योपयोगाय यः ॥ इत्याशाधरविरचितायां स्वोपज्ञधर्मामृतानगारधर्मटीकायां भव्यकुमुदचन्द्रिकासंज्ञायां पिण्डशुद्धिविधानीयो नाम पञ्चमोऽध्यायः ॥ ५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org