________________
पञ्चमोऽध्यायः।
त्यर्थः। क? अत्रास्मिन् प्रकरणे । हि यस्माद् माद्यन्ति विह्वलीभवन्ति । के ? मत्स्याः । क ? जले । किंविशिष्टे ? मत्स्यमदने मत्स्या माद्यन्त्यनेनेति मत्स्यमदनम् । योगविशेषवशान्मत्स्यानां मदहेतुत्वं प्राप्ते इत्यर्थः । न माद्यन्ति । के ? प्लवा मण्डूकाः । क ? मत्स्यमदने जले। उक्तं च
मत्स्यार्थ प्रकृते योगे यथा माद्यन्ति मत्स्यकाः। न मण्डूकास्तथा शुद्धः परार्थ प्रकृते यतिः॥.. अधःकर्मप्रवृत्तः सन् प्रासुद्रव्येपि बन्धकः। अधःकर्मण्यसौ शुद्धो यतिः शुद्धं गवेषयेत् ॥ अपि चआधाकम्मपरिणदो पासुगदव्वेवि बंधगो भणिदो।
सुद्धं गवेसमाणो आधाकम्मेवि सो सुद्धो॥ एतेनाधःकर्ममुग्भावशुद्धमित्यपि व्याख्यातम् ।
शुद्धाहाराहितसामर्थ्योयोतितसियुत्साहांस्त्रिकालविषयान् मुमुक्षूनारम. नः सिद्धिं प्रार्थयमानः प्राहविदधति नवकोटीशुद्धभक्ताद्युपाजे,कृतनिजवपुषो ये सिद्धये सञ्जमोजः । विदधतु मम भूता भाविनस्ते भवन्तो,प्यसमशमसमृद्धाः साधवः सिद्धिमद्धा ॥ ६९ ॥ विदधतु कुर्वतु । के ? ते साधवः । काम् ? सिद्धिं स्वात्मोपलब्धिम् । कस्य ? मम । कथम् ? अद्धा झटिति । किं विशिष्टाः ? भृता अतीता, भाविनोऽ नागता, भवन्तोपि वर्तमानाश्च । किंविशिष्टा एते त्रयोपि ? असमशमसमृद्धा असाधारणोपशमसम्पन्नाः । ये किम् ? ये विदधति कुर्वन्ति । किं तत् ? ओज उत्साहम् । किं विशिष्टम् ? सजं साक्षात्क्षमम् कस्यै ? सिद्धये। किंविशिष्टाः सन्तः? नवेत्यादि । नव कोट्यो मनोवाकायैः प्रत्येकं कृतकारितानुमतानि। तच्छुद्धं तद्रहितमित्यर्थः । आर्षे त्वेवम्--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org