________________
अनगारधर्मामृते
शिल्पकारुकवाक्पण्यशंफलीपतितादिषु। देहस्थितिं न कुर्वीत लिङ्गिलिङ्गोपजीविषु॥ दीक्षायोग्यास्त्रयो वर्णाश्चत्वारश्च विधोचिताः।
मनोवाकायधर्माय मताः सर्वेपि जन्तवः ॥ किंविशिष्टं सत् ? कृतं साधितम् । कस्मै ? आत्मने आत्मार्थम् । पुनः किं विशिष्टम् ? अपेतैकाक्षजीवमेकेन्द्रियप्राणिरहितम् । पुनरपि किंविशिष्टम् ? वर्जितं त्यक्तम् । कैः ? त्रसैीन्द्रियादिजीवैः । किंविशिष्टैः ? निर्जीवैरपि मृतैर्जीवद्भिश्च । द्रव्यभावशुयोरन्तरमाहद्रव्यतः शुद्धमप्यन्नं भावाशुद्ध्या प्रदुष्यते । भावो ह्यशुद्धो बन्धाय शुद्धो मोक्षाय निश्चितः ॥६७ ॥ प्रदुष्यते प्रकर्षेण दुष्टं क्रियते। किं तत् ? अन्नम् । कया ? भावाशुद्ध्या मदर्थ साधुकृतमिदमिति परिणामदृष्ट्या । किंविशिष्टमपि ? द्रव्यतः शुद्धमपि । प्रासुकशुद्धमपीत्यर्थः । उक्तं च
प्रगता असवो यस्मादन्नं तद्रव्यतो भवेत् । प्रासुकं किं तु तत्स्वस्मै न शुद्धं विहितं मतम् ॥ हि यस्मानिश्चितो निर्णीतः । कोसौ ? भावः परिणामः । किंविशिष्टः ? अशुद्धो रागद्वेषमोहरूपः । कस्मै ? बन्धाय कर्मबन्धार्थम् । शुद्धश्च भावो निश्चितः । कसै ? मोक्षाय । परार्थकृतस्यान्नस्य भोक्तुरदुष्टत्वं दृष्टान्तेन द्रढयन्नाहयोक्ताऽधःकर्मिको दुष्येन्नात्र भोक्ता विपर्ययात् । मत्स्या हि मत्स्यमदने जले माद्यन्ति न प्लवाः ॥ ६८ ॥ दुष्येद् दोषैरुपलिप्येत् । कोसौ ? योक्ता अन्नादेर्दाता । किंविशिष्टो यतः ? अधःकर्मिकोऽधःकर्मणि प्रवृत्तः । हेतुनिर्देशोऽयम् । न दुष्येत् । कोसौ ? भोक्ता संयतः । कस्मात् ? विपर्ययातू । अधःकर्मरहितत्वादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org