________________
पश्चमोऽध्यायः ।
संव्वेसणं च विदेसणं च सुद्धेषणं च ते कमसो । एसणसमिदिविसुद्धं णिव्वियडमऽवंजणं जाणे ॥
अत्र प्रत्येकं च शब्दोऽसर्वैषणमविद्वेषणमशुद्धैषणं चेत्यर्थः । कदाचिद्धि तागपि योग्यं कदाचिच्चायोग्यमिति टीकाव्याख्यान संग्रहार्थं समीक्ष्य चेत्ययं चशब्दार्थः । इति हेतुप्रकरणम् ।
विधिप्रयुक्तभोजनात्स्वपरोपकारं दर्शयन्नाह -
यत्प्रत्तं गृहिणात्मने कृतमपेतैकाशजीवं त्रसै, निर्जीवैरपि वर्जितं तदशनाद्यात्मार्थसिद्ध्यै यतिः । युञ्जन्नुद्धरति स्वमेव न परं किं तर्हि सम्यग्दृशं, दातारं शिश्रिया च सचते भोगैश्च मिथ्यादृशम् ||६६ ||
३६९
न परं न केवलं यतिः संयतः स्वमेवात्मानमेवोद्धरति संसारसागरान्निस्सारयति । किं कुर्वन् ? युञ्जन् उपयुआनः । किं तत् ? तद्शनादि भक्तौषधादि । कस्यै ? आत्मार्थसिद्ध्यै आत्मार्थस्य सुखस्य दुःखनिवृत्तेश्च संप्रात्यर्थम् । किं तर्हि करोति ? सचते संबध्नाति । तद्योग्यं करोतीत्यर्थः । कोसौ ? यतिः । कम् ? दातारं दायकम् । किं विशिष्टम्। सम्यग्दृशं विशुद्ध सम्यक्त्वम् । कया ? शिव श्रिया स्वर्गापवर्गलक्ष्म्या । तथा मिथ्यादृशं दातारं भोगैरिष्टविषयैश्च सचते । तत्किम् ? यत्प्रत्तं प्रकर्षेण प्रतिग्रहादिनवपुण्यलक्षणेन दत्तम् । नवपुण्यानि यथापेंडिगहमुच्चद्वाणं पादोदयमच्चणं च पणमं च । मणवयणकायसुद्धी एसणसुद्धी य णवविहं पुण्णं ॥
केन ? गृहिणा नित्यनैमित्तिकानुष्ठानस्थेन गृहस्थेन ब्राह्मणाद्यन्यतमेन, न शिल्प्यादिना । तदुक्तम्
१ - सर्वेषणं च विद्धैषणं च शुद्धैषणं च तानि क्रमशः । एषणसमितिविशुद्धं निर्विकृतमव्यंजनं जानीहि ||
२ - प्रतिग्रहमुच्चस्थानं पादोदकमर्चनं च प्रणामं च । मनोवचन काय शुद्धीरेषणशुद्धिं च नवविधं पुण्यम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org