________________
३६८
अनगारधर्मामृते
न केवलं, कायकाय॑तपः प्राणियाद्यर्थ च । आदिशब्देन श्रामण्यानुवृत्तिसमाधिमरणादिपरिग्रहः । स्वास्थ्यार्थं सर्वैषणादिभिः समीक्ष्य वृत्तिं कल्पयेदित्युपदिशतिद्रव्यं क्षेत्रं बलं कालं भावं वीर्य समीक्ष्य च । स्वास्थ्याय वर्ततां सर्वविद्धशुद्धाशनैः सुधीः ॥६५॥ सुधीः प्रेक्षापूर्वकारी साधुर्वर्ततां वृत्तिं कल्पयेत् । कैः ? सर्वविद्धशु. द्धाशनैः सर्वाशनेन विद्धाशनेन शुद्धाशनेन चेत्यर्थः। चशब्दादसा दित्रयेण च । किं कृत्वा ? समीक्ष्य सम्यगालोच्य । किं किम् ? द्रव्य मि. त्यादिषट्कम् । कस्मै ? स्वास्थ्याय आरोग्यार्थ स्वात्मन्यवस्थानार्थं च । तत्र द्रव्यमाहारादि । क्षेत्रं भूम्येकदेशो जाङ्गलादि । तल्लक्षणं यथा
देशोल्पवारिद्रुनगो जाङ्गलः स्वल्परोगदः । अनूपो विपरीतोऽस्मात्समः साधारणः स्मृतः॥ जाङ्गलं वातभूयिष्ठमनूपं तु कफोल्वणम् ।
साधारणं सममलं त्रिधा भूदेशमादिशेत् ॥' बलमन्नादिजं स्वाङ्गसामर्थ्यम् । कालो हेमन्तादिऋतुषट्कम् । तञ्चर्या यथा
शरद्वसन्तयो-रूक्षं शीतं धर्मघनान्तयोः।
अन्नपानं समासेन विपरीतमतोन्यदा ॥ तथा
शीते वर्षासु चाद्यांस्त्रीन्वसन्तेऽन्त्यान् रसान्भजेत् । स्वादु निदाघे शरदि स्वादुतिक्तकषायकान् ॥ रसाः स्वाद्वम्ललवणतिक्तोषणकषायकाः। षद्रव्यमाश्रितास्ते च यथापूर्व बलावहाः ।। भावः श्रद्धोत्साहादिः। वीर्य संहननम् नैसर्गिकशक्तिरित्यर्थः । सर्वाशनमेषणासमितिशुद्धं भोजनम् । विद्धाशनं गुडतैलघृतदधिदुग्धशालनादि. रहितं सौवीरशुक्लतकादिसमन्वितम् । शुद्धाशनं पाकादवतीर्णरूपं मनागप्यन्यथा न कृतम् । उक्तं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org