SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽध्यायः । दयाक्षमादयो बुभुक्षार्तस्य न स्युरित्युपदिशति - बुभुक्षाग्लपिताक्षाणां प्राणिरक्षा कुतस्तनी । क्षमादयः क्षुधार्तानां शंक्याश्चापि तपखिनाम् ।। ६२ ॥ कुतस्तनी कस्मादागता भवति । कासौ ? प्राणिरक्षा | केषाम् ? बुभुक्षाग्लपिताक्षाणां क्षुधानिःशक्तीकृतहृषीकाणाम् । तथा शङ्कयाश्च संदेह्या भवन्ति । के ? क्षमादयः । केषाम् ? तपस्विनामपि चिरभाविततपसामपि । किंविशिष्टानाम् ? क्षुधार्तानां क्षुत्पीडितानाम् । I क्षुधाग्लानेन वैयावृत्त्यं दुष्करमाहरान्राणाश्च प्राणा योगिनामपीत्युपदिशति क्षुत्पीतवीर्येण परः स्ववदार्तो दुरुद्धरः । प्राणाश्राहारशरणा योगकाष्ठाजुषामपि ॥ ६३ ॥ भवति । कोसौ ? परः । किं विशिष्टः ? दुरुद्ध उद्धर्तुमशक्यः । केन ? क्षुत्पीतवीर्येण क्षुधानाशितशक्तिना पुंसा । किंविशिष्टः सन् ? आर्तो दुःखातुरः । किंवत् ? स्ववत् आत्मा यथा । प्राणाश्च भवन्ति । किंविशिष्टाः ? आहारशरणाः 1 आहारः शरणमर्तिहरणं येषां त एवम् | केषाम् ? योगकाष्ठाजुषामपि । योगस्य यमनियमासनप्राणायामप्रत्याहारधारणध्यानसमाधिभिरष्टाङ्गस्य काष्ठामुत्कर्ष जुषन्ते सेवन्ते त एवम् । घटमानयोगानामपि किं पुनरारब्धयोगानामयोगानां चेत्यपि शब्दार्थः । " भोजन त्यजन निमित्तान्याह - आतङ्क उपसर्गे ब्रह्मचर्यस्य गुप्तये । काय कार्ण्यतपःप्राणिदयाद्यर्थे च नाहरेत् ॥ ६४ ॥ ३६७ Jain Education International नाहरेन्न भुञ्जीत संयतः । क्व सति ? आतङ्के आकस्मिकोत्थितव्याधौ मारणान्तिकपीडायाम् । तथोपसर्गे देवादिकृतोपलवे । तथा नाहरेत् । कस्यै ? गुप्तये सुष्ठु निर्मलीकरणार्थम् । कस्य ? ब्रह्मचर्यस्य । For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy