SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृते भवन्ति । के ? हेतवः कारणानि । कस्य ? अनशनस्य भोजनवर्जनस्य । कियन्तः ? बहव इयन्त इत्यनवधारिताः। किंविशिष्टाः ? अन्येपि अनुक्ता अपि। किंवत् ? तद्वत् काकादिभिस्तुल्यम् । तानेव दिङ्मात्रेण दर्शयति । चाण्डालादिस्पर्श इत्यादि । चाण्डालादिस्पर्शश्चाण्डालश्वपचादिछुप्तिः । कलहो युद्धम् । प्रियप्रधानमृती इष्टमरणं मुख्यमरणं च । भीतियत्किंचिभयं पापभयं वा । लोकजुगुप्सा जनगीं । सधर्मसंन्यासपतनं साधर्मिकस्य संन्यासेन मरणम् । सहसोपद्रव. भवनं स्वभुक्तिभवने । सहसा अटित्याकरिसकं, स्वभुक्तिभवने आत्मनो भुक्तिक्रियागृहे, उपद्रवभवनं यस्य कस्यचिदुपसर्गस्य प्रादुर्भावः । स्वमौनभङ्गः स्वस्यात्मनो भुजिक्रियायामवश्यकरणीयस्य मौनस्य भङ्गोऽज्ञानात्प्रमादाद्वा भञ्जनम् । संयमः प्राणिरक्षार्थमिन्द्रियदमनार्थ च स्वस्य संयमनम् निर्वेदो भवाङ्गभोगवैराग्यम् ॥ इत्यन्तरायप्रकरणम् । तथाहारकरणकारणान्याहक्षुच्छमं संयम स्वान्यवैयावृत्त्यमसुस्थितिम् । वाञ्छन्नावश्यकं ज्ञानध्यानादींश्चाहरेन्मुनिः ॥६१ ॥ मुनिराहरेद् भुजीत । किं कुर्वन् ? क्षुच्छमादीन्वाञ्छन् क्षुच्छमं क्षुद्वेदनोपशमम् । स्वान्यवैयावृत्त्यं स्वपरयोरापत्प्रतीकारम् । असुस्थिति प्राणधारणम् । ज्ञानं स्वाध्यायम् आदिशब्देन क्षमादयो गृह्यते । उक्तं चवेयणवजावञ्चे किरियुट्ठाणे य संजमट्टाए । तवपाणधम्मचिंता कुजा एदेहिं आहारं ॥ १-२ एतत्पदद्वयं मूले समस्यमानायुक्तौ । ३ अत्र शोके मूलोक्ता बहवः शब्दा न गृहीताः । ४-वेदनावैयावृत्त्ये क्रियां वा। तपःप्राणधर्मचिन्ता कुर्यादेतैराहारम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy