SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽध्यायः। स्वस्यात्मनो निकटस्य वा प्रत्यासन्नस्य यस्य कस्यचित् । तथा ग्रामदाहो नाम भुक्तिविघ्नः स्यात् । क सति ? अग्निना दाहे ग्रामस्य स्वाध्यासितग्रामे दह्यमाने सति । तथा पादग्रहणं नाम भुक्तिविघ्नः स्यात् । क सति ? पादेन ग्रहणे सति मुनेः । कस्य ? कस्यचिदन सुवर्णादेः। किं कृत्वा ? उद्धृत्त्य भूम्यादेरुक्षिप्य । तथा हस्तग्रहणं नाम भुक्तिविनोन्तिमो द्वात्रिंशः स्यात् । क्व सति ? आदाने ग्रहणे मुनेः । केन ? पाणिना हस्तेनोद्धृत्य कस्यचित् । अथ सुखस्मृत्यर्थमुद्देशगाथा लिख्यन्ते कागागिद्धाछद्दीरोधणरुधिरं च अस्सुवादं च । जण्हूहेहापरिसं जहूवरि वदिकमो चेव ॥ णाहि अहोणिग्गमणं पञ्चक्खिदसेवणा य जंतुवहो। कागादिपिंडहरणं पाणीदो पिंडपडणं च ॥ पाणीये जंतुवहो मंसादीदंसणे य उवसग्गे । पादंतरपंचिंदिय संपादो भायणाणं च ॥ उच्चारं पस्सवणं अभोजगिहपवेसणं तहा पडणं । उववेसण संदसो भूमी संफासणिट्टिवणं ॥ उदरकिमिणिग्गमणं अदत्तगहणं पहारगामदाहो य। पादेण किंचिगहणं करेण वा जच्च भूमीदो। एदे अण्णे बहुगा कारणभूदा अभोजणस्सेह। भीहण लोयदुगुच्छण संजमणिव्वेदणटुं च ॥ आर्याद्वयेन शेषं संगृह्णन्नाहतद्वच्चण्डालादिस्पर्शः कलहः प्रियप्रधानमृती । भीतिर्लोकजुगुप्सा सधर्मसंन्यासपतनं च ॥ ५९॥ सहसोपद्रवभवनं स्वभुक्तिभवने स्वमौनभङ्गश्च । संयमनिर्वेदावपि बहवोऽनशनस्य हेतवोन्येपि ॥ ६०॥ (युग्मम्) Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy