________________
अनगारधर्मामृते
वुपवेशनसंशः स्यात् । कया ? निषद्यया भूमावुपवेशनेन । तथा संदंशो नामान्तरायः स्यात् । क सति ? श्वादिदंशने मण्डलिविडाला. दिना दंशकरणे।
भूमिसंस्पर्श निष्ठीवनमुदरक्रिमि निर्गमनमदत्तग्रहणं च चतुरः श्लोकद्वयेनाह
भूस्पर्शः पाणिना भूमेः स्पर्शे निष्ठीवनाह्वयः। . स्वेन क्षेपे कफादेः स्यादुदरक्रिमिनिर्गमः ॥ ५५ ॥ उभयद्वारतः कुक्षिक्रिमिनिर्गमने सति । स्वयमेव ग्रहेऽन्नादेरदत्तग्रहणाद्वयः ॥५६॥ युग्मम् । भूस्पर्शी नामान्तरायः स्यात् । क सति ? पाणिना हस्तेन भूमेः स्पर्श कृते सति । तथा निष्ठीवनाह्वयः स्यात् । क सति ? कफादेः श्लेष्मथूकादेः क्षेपे निरसने कृते सति । केन ? स्वेनामना, न काशादिवशतः। तथा उदरक्रिमिनिर्गमो नामान्तरायः स्यात् । क सति ? कुक्षिक्रिमिनिर्गमने सति । केन ? उभयद्वारत ऊर्ध्वमार्गेणाधोमार्गेण वा । उभयं च तद्द्वारं च, तेन । तथा अदत्तग्रहणावयः स्यात् । व सति ? ग्रहे आदाने । कस्य ? अन्नादेर्भक्तपानौषधादेः । केन ? स्वयमेव दातृप्रयोगं विना । प्रहारं ग्रामदाहं पादग्रहणं करग्रहणं च चतुरः श्लोकद्वयेनाहप्रहारोऽस्यादिना स्वस्य प्रहारे निकटस्य वा । ग्रामदाहोनिना दाहे ग्रामस्योद्धृत्य कस्यचित् ॥ ५७ ॥ पादेन ग्रहणे पादग्रहणं पाणिना पुनः । हस्तग्रहणमादाने भुक्तिविघ्नोन्तिमो मुनेः ॥ ५८ ॥
(युग्मम्) प्रहारो नाम मुनेभुक्तिविघ्नो भुजिक्रियान्तरायः स्यात् । क सति ? प्रहारे प्रहरणे कृते सति । केन ? अस्यादिना खड्गकुन्तादिना । कस्य ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org