________________
पञ्चमोऽध्यायः।
रायः स्यात् । क सति ? देवाद्युपसर्गे देवमनुष्यतिरश्वामन्यतमेन क्रियमाणे उत्पाते साधोः। तथा तन्नामकः पादान्तरपञ्चेन्द्रियागमनाख्योन्तरायः स्यात् । क सति ? पञ्चाक्षगमे पञ्चेन्द्रियस्य गमने । केन ? पादान्तरेण चरणयोरंतरालेन । कस्य ? अश्नतः । भाजनसंपातमुच्चारं च द्वावाहभूमौ भाजनसंपाते पारिवेषिकहस्ततः। तदाख्यो विन उच्चारो विष्ठायाः स्वस्य निर्गमे ॥ ५२ ॥ तदाख्यो भाजनसंपातो नाम विनोन्तरायः स्यात् । क्व सति ? भाज. नसंपाते भाजनस्य करकादेः पतने । क ? भूमौ । कस्मात् ? पारिवेषिकहस्ततः पारिवेषिकस्य यतिहस्तपुटे जलादि प्रक्षेपतुः करात् । तथा उच्चारो नामान्तरायः स्यात् । क सति ? निर्गमे गुदाद्वहिनिःसरणे । कसाः ? विष्ठायाः पुरीषस्य । कस्य ? स्वस्यात्मनः । प्रस्रवणमभोज्यगृहप्रवेशनं च द्वावाहमूत्राख्यो मूत्रशुक्रादेचाण्डालादिनिकेतने । प्रवेशो भ्रमतो भिक्षोरभोज्यगृहवेशनम् ॥ ५३ ॥ स्वस्य निर्गम इति वर्तते । मूत्राख्योन्तरायः स्यात् । क सति ? निर्गमे । कस्य ? मूत्रशुक्रादेः । कस्य ? स्वस्य । आदिशब्दादश्मर्यादेश्च । अथाभोज्यगृहवेशनमऽभोज्यगृहप्रवेशनं नामान्तरायः स्यात् । किम् ? प्रवेशः । कस्य ? भिक्षोर्यतेः । किं कुर्वतः ? भ्रमतो भिक्षार्थ पर्यटतः । क ? चांडालादिनिकेतने चांडालश्वपचवरुटादीनामस्पृश्यानां गृहे । पतनमुपवेशनं संदंशं च त्रीनाह-- भूमौ मूर्छादिना पाते पतनाख्यो निषद्यया । उपवेशनसंज्ञोसौ संदंशः श्वादिदंशने ॥ ५४॥ असौ पतनाख्योन्तरायः स्यात् । क्व सति ? पाते पतने साधोः । क? भूमौ । केन ? मूर्छादिना । आदिशब्दाद् भ्रमलमादिना । सथासा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org