________________
३६२
अनगारधर्मामृते
चीनमर्गलादिरूपेण तिर्यक् स्थापितं यत्काष्टादि दारुपाषाणादि । तस्योपरि लङ्कनमुल्लङ्घ्य गमनम् । तथा नाभ्यधोनिर्गमो नामान्तरायः स्यात् । यत्किम् ? यन्निर्गमो निर्गमनं क्रियते साधुना। किं कृत्वा ? कृत्वा । किं तत् ? शिरो मस्तकम् । क ? नाभ्यधः स्वनाभेरधस्तात् । तथा प्रत्या. ख्यातसेवा नामान्तरायः स्यात् । यत्किम् ? यदुज्झिताशनं क्रियते साधुना । उज्झितस्य देवगुरुसाक्षिकं प्रत्याख्यातस्य वस्तुनोऽशनं खादनम् । तथा जन्तुवधो नामान्तरायो भवेत् । यः किम् ? यःपञ्चाक्षघातः पञ्चाक्षस्य मूषिकादेर्हननं क्रियते । केन ? अन्येन मार्जारादिना । क्व ? अग्रे । कस्य ? स्वस्य यतेरात्मनः। -
काकादिपिण्डहरणं पाणिपिंडपतनं पाणिजन्तुवधनं मांसादिदर्शनमुपसर्ग पादान्तरपञ्चेन्द्रियगमनं च षद त्रिभिः श्लोकैराह
काकादिपिण्डहरणं काकगृद्रादिना करात् । पिण्डस्य हरणे ग्रासमात्रपातेश्नतः करात् ॥ ४९ ॥ स्यात्पाणिपिण्डपतनं पाणिजन्तुवधः करे । स्वयमेत्य मृते जीवे मांसमद्यादिदर्शने ॥ ५० ॥ मांसादिदर्शनं देवाद्युपसर्गे तदादयः । पादान्तरेण पञ्चाक्षगमे तन्नामकोऽश्नतः ॥५१॥ (त्रिकम्, काकादिपिण्डहरणं नामान्तरायः साधोः स्यात् । क सति ? हरणे पनयने । कस्य ? पिण्डस्य भोज्य द्रव्यस्य । केन ? काकगृद्रादिना कस्मात् ? कराद् हस्तात् । किं कुर्वतः ? अनतो भुञानस्य साधोः तथा पाणिपिण्डपतनं नामान्तरायः स्यात् । क सति ? ग्रासमात्र पाते ग्रासमात्रस्य पतने । कस्मात् ? करात् । कस्य ? अश्नतः । तथ पाणिजन्तुवधो नामान्तरायः स्यात् । क सति ? जीवे प्राणिनि । किंवि शिष्टे ? मृते । क ? करे हस्तेश्नतः । किं कृत्वा ? एत्य आगत्य । कथम् । स्वयं परप्रयोगं विना । तथा मांसादिदर्शनं नामान्तरायः स्यात् । क सति न्मांसमद्यादिदर्शनेश्नतः साधोः। तथा तदाह्वयो देवाद्युपसर्गनामान्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org