SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽध्यायः। पातोश्रूणां मृतेन्यस्य कापि वाक्रन्दतःश्रुतिः । स्याजान्वधःपरामर्शः स्पर्शो हस्तेन जान्वधः ॥४६॥ (युग्मम्) रुधिरं नामान्तरायः स्यातू । यः किम् ? य उपलम्भो दर्शनं साधोः स्यात् । कस्य ? अस्त्रपूयादे-रुधिरपूयरसिकादेः । किं कुर्वतः ? वहतः सुतिरूपेणाधोगच्छतः । काभ्याम् ? स्वान्यदेहाभ्यां स्वशरीरात्परशरीराद्वा । कथं कृत्वा ? चतुरङ्गलम् चत्वार्यमुलानि यावत् । ततो न्यूनवहने नास्त्यन्तरायः । तथाश्रुपातो नामान्तरायः स्यात् । यः किम् ? यः पातः । केषाम् ? अश्रूणाम् वाष्पाणां । कस्य ? आत्मनः स्वस्य । कया ? शुचा शोकेन न धूमादिना । प्रकारांतरेण तमेवाह-सोप्यश्रुपातो नामांतरायः स्यात् । या किम् ? या श्रुतिः आकर्णनं कस्य ? अन्यस्य सन्निकृष्टस्य पुंसः स्त्रिया वा । किं कुर्वतः ? आक्रन्दत उच्चैरुदतः । व सति ? क्वापि क्वचित्स्वसंबन्धिनि । किंविशिष्टे ? मृते । तथा जान्वधःपरामर्शो नामान्तरायः स्यात् । यः किम् ? यः साधुना सिद्धभक्त्यनन्तरं क्रियते । कोसौ ? स्पर्शः स्पर्शनम् । केन ? हस्तेन । क । जान्वधः स्वजानुनोऽधस्तात् । जानूपरिव्यतिक्रमनाभ्यधोनिर्गमनप्रत्याख्यातसेवनजन्तुवधनाम्नश्चतुरः श्लोकद्वयेनाह जानुदनतिरश्चीनकाष्ठाद्युपरिलङ्घनम् । जानुव्यतिक्रमः कृत्वा निर्गमो नाभ्यधः शिरः ॥४७॥ नाभ्यधोनिर्गमः प्रत्याख्यातसेवोज्झिताशनम् । स्वस्याग्रेन्येन पञ्चाक्षघातो जन्तुवधो भवेत् ॥ ४८ ॥ (युग्मम् ) जानव्यतिक्रमो जानूपरिव्यतिक्रमो नामान्तरायः स्यात् । किम् ? जानुदग्धतिरश्चीनकाष्ठाद्युपरिलङ्घनम् । जानुदग्धं जानुमानं तिर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy