________________
३६०.
अनगारधर्मामृते
अन्तरायाः संयतैः । कस्मात् ? व्यवहारतो वृद्धपरम्परायातं देशादिव्यवहारमाश्रित्य |
काकाख्यलक्षणमाह
काकश्वादिविडुत्सर्गो भोक्तुमन्यत्र यात्यधः । यतौ स्थिते वा काकाख्यो भोजनत्यागकारणम् ॥ ४३ ॥ काकाख्योऽन्तरायः स्यात् । किंविशिष्टः ? भोजनत्यागकारणं भुक्तिपरिहारहेतुः । किंरूपः ? काकश्वाद्विविदुत्सर्गः । काकश्च श्वा च शुनकः काकश्वानौ । तावादी येषां श्येनमार्जारादीनां ते काकश्वादयः । तेषां विशो विष्टाया उत्सर्गः काकशुनकश्येनमाजीरादिविष्टापरिपतनमित्यर्थः । क्व सति ? यतौ संयते । किं कुर्वति ? याति कुतश्चिन्निमित्ताद्गच्छति सति । क्व ? अन्यत्र सिद्धभक्त्युच्चारणस्थानादन्यस्मिन् स्थाने । किं कर्तुम् ? भोक्तुं भोजनं कर्तुम् । क ? अधः काकश्वादेरधस्तात् स्थिते वा भोक्तुमुद्भीभूते ।
अमेध्यच्छर्दिरोधननाम्नस्त्रीनन्तरायानाह
पोऽमेध्येन पादादेरमेध्यं छर्दिरात्मना ।
छर्दनं रोधनं तु स्यान्मा भुङ्क्ष्वेति निषेधनम् ॥ ४४ ॥ भोजनत्यागकारणमित्यादिदीपकत्वात्सर्वत्र संबन्धनीयम् । अमेध्यं नामान्तरायो भोजन त्यागकरणं स्यात् । यः किम् यो लेप उपदेहः कस्य ? पादादेश्वरणजङ्घाजान्वादेः । कस्य ? साधोः स्थानान्तरं गच्छतः स्थितस्य वा । केन ? अमेध्येनाशुभेन पुरीषादिद्रव्येण । तथा छर्दिनमान्तरायः स्यात् । किं तत् ? छर्दनं कुतश्चिन्निमित्तागमनं साधोः । केन ? आत्मनाऽपरेण । तथा रोधनं नामान्तरायः स्यात् । किं ? रोधनं धरणकादिना भोजननिवारणम् । कथम् ? मा भुङ्क्ष्वेति अद्य भोजनं मा कार्षीत्वमिति ।
रुधिराश्रुपातजान्वधः परामर्शाख्यांस्त्रीन् लोकद्वयेनाह - रुधिरं स्वान्यदेहाभ्यां वहतश्चतुरङ्गुलम् । उपलम्भोऽस्रपूयादेरश्रुपातः शुचात्मनः ॥ ४५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org