________________
पञ्चमोऽध्यायः।
अन्नगते इत्यनुवृत्त्या योज्यम् । अयं हि मध्यमदोषः । तथा उत्सृजेत्सा. धुः । किं तत् ? अन्नम् । क्क सति ? केशादौ केशमृतविकलत्रिकेऽन. गते । तुर्विशेषे । न प्रायश्चित्तं चरेदल्पदोषत्वादित्यर्थः । कन्दादिषट्कस्थाहारात्पृथक्करणतत्यागकरणत्वविधिमाहकन्दादिषटुं त्यागाहमित्यन्नाद्विभजेन्मुनिः। न शक्यते विभक्तुं चेत् त्यज्यतां तर्हि भोजनम् ॥४१॥ विभजेत् कथमप्यन्ने संसक्तं ततः पृथक्कुर्यात् । कोसौ ? मुनिः। किं तत् ? कन्दादिषट्कम् । कुतः ? त्यागार्ह मिति परिहारयोग्यं यतः। चेद्यदि पुनर्न शक्यते । किं तत् ? कन्दादिषट्कम् । किं कर्तुम् ? विभक्तुमन्नात् पृथक्कर्तुम् । तर्हि त्यज्यतां मुच्यतां मुनिना । किं तत् ? भोजनम् । इति मलप्रकरणम्। अथ द्वात्रिंशतमन्तरायान् व्याख्यातुमुपक्षिपतिप्रायोन्तरायाः काकाद्याः सिद्धभक्तेरनन्तरम् । द्वात्रिंशद्व्याकृताः प्राच्यैः प्रामाण्या व्यवहारतः ॥ ४२ ॥ व्याकृता व्याख्याता न सूत्रिताः के ? अन्तरायाः। किंविशिष्टाः ? काकाद्याः। कति ? द्वात्रिंशत् । कैः ? प्राच्यैष्टीकाकारादिभिः । कथं कृत्वा ? अनन्तरम् । कस्याः ? सिद्धभक्तेः सिद्धभक्तरुच्चारितायाः पश्चादिति भावः । कथम् ? प्रायः एतेनाभोज्यगृहप्रवेशादेः सिद्धभक्तः प्रागप्यन्तरायत्वं भवतीति बोधयति । तथा द्वात्रिंशतोतिरिक्ता अप्यन्तराया यथाम्नायं भवन्तीति च । उक्तं च मूलाचारटीकायां स्थितिभोजनप्रकरणे
" न चैतेऽन्तरायाः सिद्धभक्तावकृतायां गृह्यन्ते सर्वदैव भोजनाभावः स्यात् । न चैवं, यस्मात्सिद्धभक्तिं यावन्न करोति तावदुपविश्य पुनरुत्थाय भुते । मांसादीन् दृष्ट्वा च रोदनादिश्रवणेन चोच्चारादींश्च कृत्वा भुते । न च तत्र काकादिपिण्डहरणं संभवतीति ।" कथं पुनरेवमनुवर्तनीया इत्याह-प्रामाण्याः प्रमाणीकर्तव्याः । के ?
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org