________________
३५८
अनगारधर्मामृते
एवं पिण्डदोषान् षट्चत्वारिंशतं प्रकाश्य तन्मलांश्चतुर्दश दर्शयतिपूयास्रपलास्थ्यजिनं नखः कचमृतविकलत्रिके कन्दः । बीजं मूलफले कणकुण्डौ च मलाचतुर्दशान्नगताः ॥ ३९ ॥
1
भवन्ति । के ? पूयादयश्चतुर्दश मलाः । किंविशिष्टाः सन्तः ? अन्नगता आहारसंपृक्ताः तत्र पूयं व्रणक्लेदः अपक्चरुधिरमिति यावत् । अस्त्रं रुधिरम् । पलं मांसम् । अस्थि कीकसम् । अजिनं चर्म । नखः कररुहः । कचः केशो रोम च मृतविकलत्रिकं निजींवद्वित्रिचतुरिन्द्रिय• त्रयम् । कचश्च मृतविकलत्रिकं च कचमृत विकलत्रिके । कन्दः सूरणादिः । बीजं प्ररोहयोग्यं यवादिकमित्याचारटीकायां । अङ्कुरितमिति तु तट्टिष्पनके । मूलं मूलकार्द्धकादि फलं बदरिकादि । मूलं च फलं च मूलफले । कणो यवगोधूमादीनां बहिरवयव इत्याचारटीकायाम् । तण्डुलादीति तु तट्टिप्पन के कुण्डः शाल्यादीनामभ्यन्तर सूक्ष्मावयव इत्याचारटीकायाम् बाह्ये पक्कोs - भ्यन्तरे वाsपक इति तु तट्टिप्पनके । एते चाष्टविधपिण्डशुद्धावपठिता इति पृथगुक्ताः । उक्तं च
णहरोमजंतु अत्थी कणकुण्ड य पूयचम्मरुहिरमंसाणि । वीयफलकन्दमूला छिण्णमला चउदसा होंति ॥
पूयादिमलानां महन्मध्यात्पदोषत्वख्यापनार्थमाह
पूयादिदोषे त्यक्त्वापि तदनं विधिवच्चरेत् । प्रायश्चित्तं नखे किञ्चित् केशादौ त्वन्नमृत्सृजेत् ॥ ४० ॥
चरेद्नुतिष्ठेत् साधुः । किं तत् ? प्रायश्चित्तम् । किंवत् ? विधिवत् प्रायश्चित्तशास्त्रोक्तविधानेन । किं कृत्वा ? त्यक्त्वापि मुक्त्वापि । किं तत् ? तदन्नं पूयादिदोषदुष्टमशनम् । क सति ? पूयादिदोषे पूयाखपलास्थ्यजिनकृते भुज्यमानान्नस्य दुष्टत्वे अयं हि महादोषः । तथा चरेत्साधुः । किं तत् ? प्रायश्चित्तम् । कियत् ? किंचिद् अल्पम् । किं कृत्वा ? त्यक्त्वापि । किं तत् ? तदन्नं नखदोषदुष्टमशनम् । क्व सति ? नखे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org