________________
पञ्चमोऽध्यायः ।
३५७
अनतो भुञ्जानस्य । कया ? गृद्ध्या 'सुष्टु रोच्यमिदमिष्टम् मे यद्यन्यदपि लभेयं तदा भद्वकं भवेत् । इत्याहारेऽतिलाम्पढ्येन । तथा धूमो नाम भुक्तिदोषः स्यात् । किं कुर्वतः ? अश्नतः । कया ? निन्दया विरूपकमेतदनिष्टं ममेति जुगुप्सया । तथा संयोजनाह्वयो भुक्तिदोषः स्यात् । किं कुर्वतः ? अश्नतः । किं कृत्वा ? संयोज्य आत्मना मीलयित्वा । किं तत् ? मिथोन्योन्यं विरुद्धं । किंविशिष्टम् ? उष्णहिमादि उष्णं शीतेन शीतं चोष्णेन । आदिशब्दाद्र्क्षं स्निग्धेन स्निग्धं च रूक्षेणेत्यादि । तथा आयुर्वेदोक्तं विरुद्धमन्नं पयसा सह सर्व फलं तथेत्याद्यपि ।
उक्तं च
उक्तः संयोजनादोषः स्वयं भक्तादियोजनात् । आहारोतिप्रमाणोस्ति प्रमाणगतदूषणम् ॥
आहारमात्रं निर्दिश्यातिमात्र संज्ञादोषमाह— सव्यञ्जनाशनेन द्वौ पानेनैकमंशमुदरस्य ।
भृत्वा भृतस्तुरीयो मात्रा तदतिक्रमः प्रमाणमलः || ३८ ||
स्यात् । कासौ ? मात्रा भोजनस्येति शेषः । यत्किम् ? यत्क्रियते । कोसौ ? तुरीयश्चतुर्थः कुक्षिभागः । किंविशिष्टः ? अभृतोऽपूर्णः । रिक्तो धियते इत्यर्थः । किं कृत्वा । ? भृत्वा पूरयित्वा । कौ ? द्वावंशौ । कस्य ? उदरस्य । केन ? सव्यञ्जनाशनेन । व्यञ्जनं सूपशालनादि । सह व्यञ्जनेन वर्तते इति सव्यञ्जनम् । तच्च तदशनं च भक्तमण्डकादि । तथा एकमंशं भागमुदरस्य कुक्षे भूत्वा । केन ? पानेन द्रवद्रव्येणोदकादिना उक्तं च-
अन्नेन कुक्षेर्द्वावंशौ पानेनैकं प्रपूरयेत् । आश्रमं पवनादीनां चतुर्थमवशेषयेत् ॥
तदतिक्रमो मात्रातिक्रमः प्रमाणमलः प्रमाणाख्यो भुक्तिदोषः स्यात् । दोषत्वं चात्र स्वाध्यायावश्यकक्ष तिनिद्रालस्याद्युद्भवज्वरादिव्याधिसंभवदर्शनात् । इति भुक्तिदोषप्रकरणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org