SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ३५६ अनगारधर्मामृते— तल्लिप्तं नाम दोषः स्यात् । यत्किम् ? यद्देयं दीयतेऽन्नादि । केन ? पाणिना हस्तेन । किंविशिष्टेन ? आर्द्रेण । केन ? गैरिकादिना गैरिकखटिकादिद्रवेण वा आमेन अपक्वतण्डुलादिपिष्टेन शाकेन वा हरितकेन सलिलेन वा जलेन । न केवलं गैरिकाद्यन्यतमार्द्रेण पाणिना भाजनेन वा पात्रेण तथाविधेन । उक्तं च गेरुयहरिदालेण व सेढियमण्णो सिलामपिद्वेण । सपवालयगुल्लेणव देयं करभाजणे लित्तं ॥ मिश्र दोषमाह - पृथ्व्याप्रासुकयाऽद्भिश्व बीजेन हरितेन यत् । मिश्रं जीवत्त्रसैश्चान्नं महादोषः स मिश्रकः ॥ ३६ ॥ स मिश्रको मिश्रसंज्ञो महादोषः स्यात्, सर्वथा वर्जनीयत्वात् । यत्किम् ? यदन्नं दीयते संयताय । किंविशिष्टम् ? मिश्रं व्यतिकीर्णम् । कया ? पृथ्व्या मृत्तिकया । किंविशिष्टया ? अप्रासुकया सचित्तया तथाऽद्भिश्चाप्रासुकाभिस्तथा बीजेन यवगोधूमादिना तथा हरितेन पत्रपुष्पफलादिना तथा जीवनसैवद्भिद्दन्द्रियादिजीवैः । उक्तं च सजीवा पृथिवी तोयं नीलं बीजं तथा त्रसः । अमीभिः पञ्चभिर्मिश्र आहारो मिश्र इष्यते ॥ इत्यशनदोषप्रकरणम् । एवमशनदोषान् व्याख्याय भुक्तिदोषांश्चतुरो व्याख्यातुकामः पूर्वमङ्गारादींस्त्रींलक्षयति-— गृज्याङ्गारोऽश्नतो धूमो निन्दयोष्णहिमादि च । मिथो विरुद्धं संयोज्य दोषः संयोजनाह्वयः ॥ ३७ ॥ अङ्गाराख्यो भुक्तिदोषः स्यात् । कस्य ? साधोः । किं कुर्वतः ! १ – गैरिकहरितालेन च पिष्टेन । सप्रवाळ गुल्मने च देयं करभाजने लिप्तम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy