________________
३२
अनगारधर्मामृते
ननु यदीष्टसिद्धौ पुण्यस्य स्वातन्त्र्यं तत्किमेतत्स्वकर्तुस्तत्र क्रियामपेक्षते इति प्रश्ने सोत्प्रेक्षमुत्तरयति
मनस्विनामीप्सितवस्तुलाभाद्रम्योभिमानः सुतरामितीव । पुण्यं सुहृत्पौरुषदुर्मदानां क्रियाः करोतीष्टफलाप्तिदृप्ता:२८ करोति । किं तत् ? पुण्यम् । किंविशिष्टम् ? सुहन् निर्व्याजमुपकारकम् । काः ? क्रिया व्यापारान् । केषाम् ? पौरुषेण पुरुषाकारेण दुष्टोऽवस्थानाभिनिवेशी मदोऽहं करोमीयहंकारो येषां ते पौरुषदुर्मदास्तेपाम् । किंविशिष्टाः करोति ? इष्टफलाप्तिहप्ताः अभिमतार्थसंपादनेन गर्विताः । अभिमानरसानुरक्ता इत्यर्थः । कथम् ? इतीव एवमहं मन्ये इत्यर्थः । तथाहि । भवति । कोसौ ? अभिमान आत्मोत्कर्षसंभावनम् । किंविशिष्टः ? रम्यो हृदयावर्जकः । कथम् ? सुतरामतिशयेन । कस्मात् ? ईप्सितवस्तुलाभात् वाग्छितार्थप्रतिलम्भात् । केषाम् ? मन. स्विनां मानिनाम् ॥
विशिष्टा आयुरादयोपि पुण्योदय निमित्ता एवेत्यावेदयतिआयुः श्रेयोनुबन्धि प्रचुरमुरुगुणं वज्रसारः शरीरं, श्रीस्त्यागप्रायभोगा सततमुदयनी धीः परार्ध्या श्रुताट्या । गीरादेया सदस्या व्यवहृतिरपथोन्माथिनी सद्भिरा, स्वाम्यं प्रत्यर्थिकाम्यं प्रणयिपरवशं प्राणिनां पुण्यपाकात् २९
प्राणिनां पुण्यपाकादिति पूर्ववत् प्रत्येकं योज्यम् । भवति । किं तत् ? आयुर्जीवितम् । किंविशिष्टम् ? प्रचुरमुत्कृष्टस्थितिकम् । पुनः किं विशिटम् ? श्रेयोनुबन्धि श्रेयोनुबनातीत्येवंशीलम् । अविच्छिन्नकल्याणमित्यर्थः । केषाम् प्राणिनाम् । कस्मात् ? पुण्यपाकात् । एवमुत्तरत्रापि योज्यम् । तथा भवति । किं तत् ? शरीरम् । किंविशिष्टम् ? उरुगुणम् । उरवो महान्तः श्रेष्ठा गुणा यस्य तत् । सौरूप्यादिगुणविशिष्टमित्यर्थः । पुनः किविशिष्टम् ? वज्रसारः । वज्रस्य सार इवाभेद्यतमत्वात् । तथा भवति । कासौ? श्रीलक्ष्मीः। किंविशिष्टा? सततं यावजीवमुदयनी दिने दिने व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org