________________
प्रथमोऽध्यायः।
किंविशिष्टः? काभ्यः स्पृहणीयः । केषाम् ? समेषां सर्वेषां लोकानाम् । तथा भवति । कोसौ? शमोऽपराधकारिणां दण्डप्रणयनसामर्थ्य सत्यपराधसहनम् । किंविशिष्टः ? मन्दाक्षं लजा तद्धेतुत्वात् । केषाम् ? सुतपोजषां सम्यक्तपोभाजां यतीनाम् । तथा भवति । किं तत् ? श्रुतमाप्तवचनादिनिबन्धनमर्थज्ञानम् । किंविशिष्टम् ? ऋषि ब्रह्मर्द्धिसंघर्षकृत् । ऋषीणां तपोबलाहुद्ध्याधुद्धिभाजाम् । ब्रह्मर्द्धिर्ज्ञानातिशयप्राप्तिः । तया सह संघर्ष स्पद्धा करोति यत्तदेवम् । तथा भवति । कोसौ ? त्यागो दानम् । किंविशिष्टः ? श्रीदस्य धनदस्य दुराधिरनौचित्यप्रवृत्तं मनोदुःखम् । तस्य दाने संपादने निरनुक्रोशो निर्दयोऽवार्यवीर्यो यः सोयं श्रीददुराधिदाननिरनुकोशः। तथा भवति । कोऽसौ ? प्रतापः कोशदण्डजं तेजः । किंविशिष्टः ? रिपस्त्रीशङ्गारगरः। जायापत्योमिथो रत्यावृत्तिः शृङ्गारः। रिपुस्त्रीणां शत्रुनारीणां शृङ्गारस्य गरः कृत्रिमविषम् । तन्नाशक इत्यर्थः । तथा भवति । किं तत् ? यशः कीर्तिः । किं. विशिष्टम् ? तरङ्गितजगत् । तरङ्गितं तरङ्ग इवाचरितं स्वल्पीभूतं जगल्लोको यस्मिंस्तदेवम् त्रैलोक्यं व्याप्यालोकमपि व्याप्तुमुद्यतमित्यर्थः । उपमाग तिशयालंकारोन ॥ बुद्ध्यादिसामग्र्यपि फलदाने पुण्यमुखं प्रेक्षते एवेति वक्तुमाहधीस्तीक्ष्णानुगुणः कालो व्यवसायः सुसाहसः । धैर्यमुद्यत्तथोत्साहः सर्व पुण्याहते वृथा ॥ २७ ॥ भवति । किं तत् ? सर्व धीस्तीक्षणेत्यादिपञ्चकम् । कथम् ? वृथा व्यर्थम्। कथं ? ऋते विना । कस्मात् ? पुण्यात्। एतत्सर्व पुराकृतसुकृतविपाके सत्येव स्वसाध्यं साधयतीत्यर्थः । किं किमित्याह-भवति । कासौ ? धी. बुद्धिः । किंविशिष्टा ? तीक्ष्णा कुशाग्रीया । स्तोकस्पर्शपि कार्यान्तप्रवेशिनीत्यर्थः । कथं भवति ? वृथा एवमुत्तरत्रापि योज्यम् । तथा कालः समयोनुगुणः कार्य प्रत्युपकारी । व्यवसायः क्रियां प्रत्युद्यमः । सुष्टु यन्त्र नाहमित्यध्यवसायस्तत्साहसम् । यत्रास्ति सोयं सुसाहसः । धैर्य मुद्यदारोहत्मकर्षम् । तथोद्यन्नुल्लाहश्व कार्यकारिका शक्तिः । इत्येतत्सर्वम् ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org