________________
अनगारधर्मामृते
करणैश्चक्षुरादिभिः श्रीकरणादिनियुक्तैश्च भवरसः संसारसारमिन्द्रादिपदं ग्रामसुवर्णवस्त्रवाहनादि च पुंसि जीवे सेवकपुरुषे च अवस्थान्तरमशरीरत्वं सामन्तादिपदं च संज्वरः संतापः अस्य धर्मस्य । एवं पदार्थमधिगम्य लोकव्यवहारानुसारेण गम्यमानोपमानार्थः कल्पनीयः । इयं तु पदघटना अभ्युदेति । समन्तादुद्गच्छति । किं तत् ? तदृक्फलम् । कस्मात् ? धर्मात् । यत्किम् ? यत्प्रीणाति । तर्पयति । कोसौ ? भवरसः । किं तत् ? मनश्चित्तम् । किं कुर्वन् ? वहन् प्रवर्तमानः । कथम्? अनिशं नित्यम् किं क्रियमाणः? उद्गीर्यमाण उद्भाव्यमानः । कैः । करणैः । भव. ति । किं तत् ? तत् । किम् ? सेवाफलम् । कस्य ? अस्य । कथम्? त पुनः । यत्किम् ? यत्स्यात् । किं तत् ? अवस्थान्तरम पंसि। किं विशिष्टम् ? जन्मेत्यादि । जन्म संसारो ज्वरो मोहसंतापात्मको व्याधि. वजन्मज्वरः । तस्य संज्वरः। तस्य विशेषणानर्थवत्त्वेनोपरमो विनाशः। तेनो पक्रम्यं संपाद्यम् । तच्च तनिस्सीम निरवधि । तच्च तदातोपदेशप्रसिद्धम् । ताटक चानिर्वचनीयं शर्म सुखम् । तदेव सुधाम्बुधिरमृतसमुद्रः । तसिन्प्लवोवगाहनम् । स प्रकृतोस्मिन्निति तन्मयम् ॥
अथ त्रयोविंशत्या वृत्तैरभ्युदयलक्षणं धर्मफलं वर्णयति । तत्रादौ तावसामान्यतो वंशे विश्वेत्यादिना चतुर्दशश्लोकमयेन प्रबन्धेन तत्स्फुटयतिवंशे विश्वमहिम्नि जन्म महिमा काम्यः समेषां शमो, मन्दाक्षं सुतपोजुषां श्रुतमृषिब्रह्मर्द्धिसंघर्षकृत् । त्यागः श्रीददुराधिदाननिरनुक्रोशः प्रतापो रिपु,स्त्रीशृङ्गारगरस्तरङ्गितजगद्धमोद्यशश्चाङ्गिनाम् ॥ २६ ॥ धर्मादित्यङ्गिनामिति च प्रतिवाक्यं परिसमाप्येते। तथाहि । भवति । किं तत् ? जन्म उत्पत्तिः । व? वंशे संताने । किंविशिष्टे ? विश्वमहिनि विश्वे सर्वे जगद्व्यापिनो महिमानस्तीर्थकरत्वादिपदप्रापणप्रवणा माहात्म्यविशेषा यस्य स एवम् । केषाम् ? अजिनाम् । कस्मात् ? धर्मात । एवमुत्तरत्रापि । तथा भवति । कोसौ ? महिमा तीर्थकरत्वादिपदाद्याप्तिः । .. १ मूलोक्तं पदं वृत्तौ गतार्थ कृतम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org