________________
३५४
अनगारधर्मामृते
त्याज्यमित्यर्थः । तुषजलादीनि परिणतान्येव ग्राह्याणीति भावः । उक्तं च--
तिलंतंडुलउसिणोदय चणोदयतुसोदयं अविद्धत्थं ।
अण्णं तहाविहं वा अपरिणदं व गिहिजो॥ अपि चतिलादिजलमुष्णं च तोयमन्यच्च तादृशम् । कराद्यऽताडितं नैव ग्रहीतव्यं मुमुक्षुभिः॥ साधारणदोषमाहयदातुं संभ्रमाद्वस्त्राधाकृष्यान्नादि दीयते । असमीक्ष्य तदादानं दोषः साधारणोऽशने ॥३३॥ अशने साधारणो नाम दोषः स्यात् । किम् ? तदादानं तस्य ग्रहणम् । यत्किम् ? यदीयते दायकेन । किं तत् ? अन्नादि भक्तौषधादि। किं कृत्वा ? असमीक्ष्य सम्यगपर्यालोच्य । किं कृत्वा ? आकृष्य आहृत्य । किं तत् ? वस्त्रादि वस्त्रकटपात्रादि । कस्मात् ? संभ्रमात संक्षोभाद् भयादादराद्वा । किं कर्तुम् ? दातुं दास्यामीत्यभिप्रायेण । उक्तं च
संभ्रमाहरणं कृत्वाऽऽदातुं पात्रादिवस्तुनः।
असमीक्ष्यैव यद्देयं दोषः साधारणः स तु॥ दायकदोषमाहमलिनीगर्भिणीलिङ्गिन्यादिनार्या नरेण च । शवादिनापि क्लीबेन दत्तं दायकदोषभाक् ॥३४॥ भवति । किं तत् ? अन्नादि । किंविशिष्टम् ? दायकदोषभाक । दाय. काश्रयं दोषं भजत्याश्रयति यत्तदेवम् । किंविशिष्टं सत् ? दत्तम् । कया! मलिनीगर्भिणीलिङ्गिन्यादिनार्या । न केवलं, नरेण च किंविशिष्टेन ! १-तिलतण्डुलोष्णोदकं चणोदकं तुषोदकमऽविध्वस्तम् । अन्यत्तथाविधं वा अपरिणतं नैव ग्रह्येत ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org