________________
पञ्चमोऽध्यायः।
३५३
आहितमुपरि स्थापितम् । केषु ? सचित्तेत्यादि । क्षमा पृथ्वी । अग्निस्तेजः । वार्जलम् । बीजं प्ररोहणशक्तियुक्तं गोधूमादि । हरितमऽम्लाना. वस्थं पर्णतृणादि ।क्ष्मा चाग्निश्च वाश्च बीजं च हरितं च । मादीनि सचित्तानि सजीवानि अप्रासुकयुक्तानि वा कायरूपाणि । सचित्तानि च तानि क्ष्मादीनि च तेषु पञ्चसु षष्ठेषु च ब्रसेषु द्वित्रिचतुःपञ्चेन्द्रियजीवेषु । उक्तं च
संञ्चित्तपुढवि आऊ ते हरिदं च बीज तसजीवा । जं तेसिमुवरि ठविदं णिक्खित्तं होदि छन्भेयम् ॥ छोटितदोषमाहभुज्यते बहुपातं यत्करक्षेप्यथवा करात् ।। गलद्भिवा करौ त्यक्त्वाऽनिष्टं वा छोटितं च तत् ॥३१॥ यद्बहुपातं प्रचुरमन्नं पातयित्वा अन्यत्, अर्थादल्पं संयतेन भुज्यते । अथवा करक्षेपि गलत्परिवेषकेण हस्ते प्रक्षिप्यमाणं तकाद्यैः परिस्रवद्भुज्यते। यद्वा कराद्गलस्वहस्तात् तक्राद्यैः परिस्रवद्भुज्यते । यद्वा भित्त्वा करौ हस्तपुटं पृथक्कृत्य भुज्यते । यद्वा त्यक्त्वानिष्टमनभिरुचितमुज्झित्वा इष्टं भुज्यते तत्पञ्चप्रकारमपि छोटितमित्युच्यते ।
अपरिणतदोषमाहतुषचणतिलतण्डुलजलमुष्णजलं च स्ववर्णगन्धरसैः।। अरहितमपरमपीदृशमपरिणतं तन मुनिभिरुपयोज्यम्३२॥ तुषप्रक्षालनं चणकप्रक्षालनं तिलप्रक्षालनं तण्डुलप्रक्षालनं वा यजलं यच्चोष्णजलं तप्तं भूत्वा शीतमुदकं स्ववर्णगन्धरसैररहितमपरित्यक्तम्, अन्यदपीदृशं हरीतकीचूर्णादिना अविध्वस्तं स्ववर्णादिकं त्यक्त्वा वर्णाद्यन्तरमप्राशं यजलं तद्परिणतं भण्यते । तच्च मुनिभिः संयतैर्नोपयोज्यम्
१-सचित्तपृथिवी आपस्तेजो हरितं च बीजं त्रसजीवाः ।
यत्तेषामुपरि स्थापितं निक्षिप्तं भवति षड्भेदम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org