SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३५२ अनगारधर्मामृते दोषा अशनदोषाः । कति ? दश । कथम् ? साधारणदायकलिप्तविमित्रैः सह शङ्कितपिहितम्रक्षितनिक्षिप्तच्छोटितापरिणताख्या इति । शङ्कितं च पिहितं च म्रक्षितं च निक्षिप्तं च-च्छोटितं चापरिणतं च तान्याख्या नामानि येषां त एवम् षटू । साधारणश्च दायकश्च लिप्तं च विमिश्रं च तान्येवं चत्वारि । शङ्कितादीनां लक्षणानि वक्तुकामः प्रथमं तावच्छङ्कितपिहितदोषी लक्षयति संदिग्धं किमिदं भोज्यमुक्तं नो वेति शङ्कितम् । पिहितं देयमनासु गुरु प्रास्वपनीय वा ॥ २९ ॥ शंकितं नामाशनदोषः स्यात् । यत्किम् ? यत् संदिग्धं संशयितं भोज्यद्रव्यं स्यात् । कथम् ? इति-इदं वस्तु किमुक्तमागमे प्रतिपादितम् । किंविशिष्टम् ? भोज्यं भोजनाहम् । नो वा नोक्तं वा । यच्च किमयमाहा. रोऽधःकर्मणा निष्पन्न उत नेत्यादिशङ्कां कृत्वा भुज्यते सोपि शङ्कितदोष एव । तथा पिहितं नाम दोषः स्यात् । यत्किम् ? यद्देयं दीयते भोज्यं द्रव्यं संयताय । किं कृत्वा ? अपनीय अपसार्थ । किं तत् ? अप्रासु सचित्तं पिधानद्रव्यम् । अथवा प्रासु अचित्तं पिधानद्रव्यमपनीय । किंवि. शिष्टम् ? गुरु भारिकम् । उक्तं च पिहितं यत्सचित्तेन गुर्वचित्तेन वापि यत् । तत् त्यक्त्वैव च यद्देयं बोद्धव्यं पिहितं हि तत् ॥ प्रक्षितनिक्षिप्तदोषौ लक्षयतिम्रक्षितं स्निग्धहस्तायैर्दत्तं निक्षिप्तमाहितम् । सचित्तक्ष्मानिवार्नीजहरितेषु त्रसेषु च ॥ ३० ॥ म्रक्षितं नाम दोषः स्यात् । यत्किम् ? यदत्तं दायकेन संयताय विती. र्णम् । कैः ? स्निग्धहस्ताद्यैः स्निग्धेन घृततैलाद्याक्तेन हस्तेन, भाजनेन कडच्छुकेन वा । दोषत्वं चात्र संमूर्छनादिसूक्ष्मदोषदर्शनात् । तथा निक्षिप्त नाम दोषः स्यात् । यत्किम् ? यगोज्यद्रव्यं दीयते । किंविशिष्टं सत् ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy