________________
पञ्चमोऽध्यायः।
३५१
जपहोमादिनाध्यासिता पश्चासिद्धा वशीभूता साधित सिद्धा । तथा मन्त्रस्यात् । किंविशिष्टः ? पठितसिद्धकः पूर्व पठितो गुरुमुखादधीतः पश्चासिद्धः स्वकार्यकारी संपन्नः पठितसिद्धः । ततः स्वार्थे कः । ताभ्यां च विद्यामन्त्राभ्यां भुक्तिदेवता आहारपदव्यन्तरादिदेवानाहूय आमन्न्य तत्साधितमनतो भुञानस्य साधोस्तौ विद्यामन्त्राख्यौ दोषौ स्तो भवतः। उक्तं च
विद्यामन्त्रैः समाहूय यहानपतिदेवताः।
साधितः स भवेद्दोषो विद्यामन्त्रसमाश्रयः॥ चूर्णमूलकर्मदोषावाहदोषो भोजनजननं भूषाञ्जनचूर्णयोजनाच्चूर्णः । स्यान्मूलकर्म चावशवशीकृतिवियुक्तयोजनाभ्यां तत्॥२७॥
चूर्णः चूर्णाख्यो दोषः स्यात् । यत्किम् ? । यद्भोजनजननमाहारोत्पादनं साधोः । कस्मात् ? भूषाञ्जनचूर्णयोजनात् शरीरशोभालं करणाद्यर्थी द्रव्यरजो भूषाचूर्णः । तदेव च नेत्रनैर्मल्यार्थमञ्जनचूर्णः । भूषा चाञ्जनं च भूषाञ्जने । भूषाञ्जनाौँ चूर्णी भूपाञ्जनचूौँ । तयोर्योजनं तद. र्थिनः संपादनम् । दोषत्वं चात्र जीविकादि क्रियया जीवनात् । तथा मूल कर्माख्यो दोषः स्यात् । यत्किम् ? यद्भोजनजननम् । काभ्याम् ? अवशव शीकृतिवियुक्तयोजनाभ्याम् । अवशस्य अस्वाधीनस्य वशीकृतिः स्वाधी नीकरणमऽवशवशीकृतिः । वियुक्तानां विघटितानां स्त्रीपुरुषाणां योजन मेलकरणं वियुक्तयोजनम् । अवशवशीकृतिश्च वियुक्तयोजनं चावशवशी कृतिवियुक्तयोजने, ताभ्याम् । दोषत्वं चात्र पूर्वत्र जीविकादिक्रियया जीव नात्, परत्र च लज्जाद्याभोगस्वीकरणात् ॥ इत्युत्पादनादोषप्रकरणम् । एवमुत्पादनदोषान् व्याख्यायेदानीमशनदोषोद्देशार्थमाहशङ्कितपिहितम्रक्षितनिक्षिप्तच्छोटितापरिणताख्याः । दश साधारणदायकलिप्तविमित्रैः सहेत्यशनदोषाः ॥२८॥ भवन्ति ? के ? अशनदोषाः। अश्यते इत्यशनं भोज्यम् । अशनर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org