________________
३५०
अनगारधर्मामृते
भुञ्जानस्य । कस्मात् ? रुक्प्रतीकारात् कायाद्यष्टाङ्गचिकित्साशास्त्रबलेन ज्वरादिव्याधिग्रहादीन्निराकृत्य, तन्निराकरणमुपदिश्य च । उक्तं च
रसायनविषक्षाराः कौमाराङ्गचिकित्सिते ।
चिकित्सा दोष एषोस्ति भूतं शल्यं शिराष्टधा ॥
शिरेति शालाक्यम् । दोषत्वं चात्र सावद्यादिदोषदर्शनात् । तथा विद्या विद्याख्यो मलः स्यात् । किं कुर्वतः ? अश्नतः । काभ्याम् ? विद्यामाहात्म्यदानतः आकाशगामिन्यादिविद्यायाः प्रभावेण प्रदानेन
वा । तदुक्तम्
विद्यासाधितसिद्धा स्यादुत्पादस्तत्प्रधानतः । तस्या माहात्म्यतो वापि विद्यादोषो भवेदसौ ॥
माहात्म्यं च दानं च माहात्म्यदाने । विद्याया माहात्म्यदाने, विद्यामाहा - रम्यदाने ताभ्यां ततः । किं च, तुभ्यमहं विद्यामिमां दास्यामीत्याशाप्रदानेन च भुक्त्युत्पादेपि स एव दोषः । तथा चोक्तम्
विजां साधिदसिद्धा तिस्से आसापदाणकरणे हि । तिस्से माहपेण य विज्जादोसो दुउप्पादो ||
तथा मन्त्रो मन्त्राख्यो मलः स्यात् । किं कुर्वतः ? अश्नतः । काभ्याम् ? तद्दानमाहात्म्याभ्यां तस्य मन्त्रस्य सर्पादिविषापहर्तुर्दानेन माहात्म्येन वा । अन्नापि मन्त्राशाप्रदानेनेत्यपि व्याख्येयम् । दोषत्वं चात्र लोकप्रतारणजिह्वामृद्ध्यादिदोषदर्शनात् ।
प्रकारान्तरेण तावेवाह
विद्या साधितसिद्धा स्यान्मन्त्रः पठितसिद्धकः । ताभ्यां चाहूय तौ दोषौ स्तोश्नतो मुक्तिदेवताः ॥ २६ ॥ स्यात् । कासौ ? विद्या । किंविशिष्टा ? साधितसिद्धा पूर्वं साधिता
- विद्या साधितसिद्धा तस्या आशाप्रदानकरणैः । तस्या माहात्म्येन च विद्यादोषस्तु उत्पादः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org