________________
३४८
अनगारधर्मामृते
वनीपवचनाजीवदोषौ लक्षयति
दातुः पुण्यं श्रादिदानादस्त्येवेत्यनुवृत्तिवाक् । वनीकोक्तिराजीवो वृत्तिः शिल्पकुलादिना ॥ २२ ॥
वनीपकस्य याचकस्योक्तिर्वचनं वनीपकोक्तिर्वनीपकवचनं नाम दोषः स्यात् । या किम् ? या अनुवृत्तिवागऽनुवर्तनवचनम् । कथम् ? इति — अस्त्येव भवत्येव । किं तत् ? पुण्यं सुकृतम् । कस्य ? दातुः । कस्मात् ? श्वादिदानात् । श्वा शुनक आदिर्येषां काकादीनां ते श्वादयः । तेभ्यो दानं वितरणम् । इदमत्र तात्पर्यं शुनककाककुष्टाद्यार्तमध्याह्नकालागतमांसाद्यासक्तद्विजदीक्षोपजी विपार्श्वस्थतापसादिश्रमणच्छात्रादिभ्यो दत्ते पुण्यमस्ति नवेति दानपतिना पृष्टे सति, अस्त्येवेत्यनुकूलवचनं भोजनाद्यर्थं वनीपकवचनं नाम दोषो दीनत्वादिदोषदर्शनात् । उक्तं च
"
1
सण-किविण-तिहिमाहण-पासत्थिय सवण - काग-दाणादि । पुण्णं णवेति पुट्ठे पुण्णं ति य वणिवयं वयणं ॥
आजीवो नाम दोषः स्यात् । यत्किम् ? या वृत्तिः । केन ? शिल्पकुलादिना । हस्तविज्ञान कुल जात्यैश्वर्य तपोनुष्ठानान्यात्मनो निर्दिश्य जीवनकरणमित्यर्थः । उक्तं च
आजीवास्तप ऐश्वर्ये शिल्पं जातिस्तथा कुलम् । तैस्तूत्पादनमाजीव एष दोषः प्रकथ्यते ॥
दोषत्वं चात्र वीर्यागूहनदीनत्वादिदोषदर्शनात् । हस्तिकल्यादिनगरजाताख्यानप्रकाशनमुखेन क्रोधादिसंज्ञांश्चतुरोदो पानाह
क्रोधादिबलाददतश्चत्वारस्तदभिधा मुनेर्दोषाः । पुरहस्तिकल्पवेन्नात कासीरासीयनवत् स्युः ॥ २३ ॥
१ याचनार्थे “वनीपको याचनकः " इत्यमरः । २ श्वान - कुष्टतृष्ण-ब्राह्मण पार्श्वस्थ श्रमण-काकदानादि । पुण्यं नवेति पृष्ठे पुण्यमिति च वनीपकं वचनम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org