________________
पञ्चमोऽध्यायः ।
मार्जनधान्यादिसंज्ञो दोषः पञ्चधा स्यात् । दोषत्वं चात्र स्वाध्यायविनाशमार्गदूषणादिदोषदर्शनात् । उक्तं च
स्नानभूषापयः क्रीडामातृधात्रीप्रभेदतः । पञ्चधा धात्रिकाकार्यादुत्पादो धात्रिकामलः ॥ दूतनिमित्तदोषौ व्याकरोति
दूतोऽशनादेरादानं संदेशनयनादिना । तोषिताद्दातुरष्टाङ्ग निमित्तेन निमित्तंकम् ॥ २१ ॥
दूतो दूताख्यो दोषो भण्यते । यत्किम् ? यदादानम् ग्रहणं साधोः । कस्य ? अशनादेर्भोजनौषधादेः । कस्मात् ? दातुर्दायकात् । किंविशिष्टात् ? तोषितात् तुष्टिं नीतात् । केन ? संदेशनयनादिना । संदेशस्य वाचिकस्य संबन्धिवचनस्य नयनं स्थानान्तरप्रापणं संदेशनयनम् । तद् आदिर्यस्य लेखनयनादेः कर्मणस्तदेवम् । उक्तं च
३४७
जलस्थलनभःस्वान्यग्रामस्वपरदेशतः । संबन्धिवचसो नीतिर्दृतदोषो भवेदसौ ॥
दोषत्वं चास्य दूतकर्म शासनदूषणात् । तथा निमित्तकं निमित्तसंज्ञा दोषः स्यात् । यत्किम् ? यदादानमशनादेः संयतस्य । कस्मात् ? दातुः । किं विशिष्टात् ? तोषितात् । केन ? अष्टाङ्गनिमित्तेन व्यञ्जनादिदर्शनपूर्वकशुभाशुभज्ञानेन । तत्र व्यञ्जनं मशकतिलकादिकम् । अङ्गं करचरणादिकम् । स्वरः शब्दः । छिन्नं खड्गादिप्रहारो वस्त्रादिच्छेदो वा । भौमं भूमिविभागः 1 अन्तरिक्षमादित्यग्रहाद्युदयास्तमनं । लक्षणम् नन्दिकावर्तः पद्मचादिकम् । स्वप्नः सुप्तस्य हस्तिविमानमहिषारोहणादिदर्शनम् । भूमि गर्जन दिग्दाहादेरत्रैवान्तर्भावः । उक्तं च
लाञ्छनाङ्गस्वरं छिन्नं भौमं चैव नभोगतम् । लक्षणं स्वपनश्चेति निमित्तं त्वष्टधा भवेत् ॥
अष्टौ व्यञ्चनादिदर्शनान्यङ्गानि साधनानि यस्य तदष्टाङ्गम् ? तच्च तन्निमित्तं च भाविशुभाशुभज्ञानमष्टाङ्ग निमित्तम् । दोषत्वं चात्र रसास्वादन दैन्यादिदोषदर्शनात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org