SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३४६ कैः ? निश्रेण्यादिभिर्निश्रेणीसोपानादिभिः । दोषत्वं चात्र दातुरपायदर्शनात् । इत्युद्गमदोषप्रकरणम् ॥ अनगारधर्मामृते एवमुद्गमदोषान् व्याख्याय सांप्रतमुत्पादनदोषान्व्याख्यातुमुद्दिशति — उत्पादनास्तु धात्री दूतनिमित्ते वनीपकाजीवौ । क्रोधाद्याः प्रागनुनुतिवैद्यकविद्याश्च मन्त्रचूर्णवशाः ॥ १९ ॥ 1 धान्यादयो यथोद्देशं वक्ष्यन्ते । तुर्विशेषे । दूतश्च निमित्तं च दूतनिमित्ते द्वे । वनीपकवचनं चाजीवश्च वनीपकाजीवौ । वनीपकशब्देनात्र वनीपकवचनं गृह्यते । तथा च वक्ष्यति, "वनीपकोक्तिः " इति । क्रोधाद्याः क्रोधमानमायालो भाश्चत्वारः । प्रागनुनुती पूर्वस्तवनं पश्चारस्तवनं च । प्राक् चानु च प्रागनु । प्रागनु च ते नुती च प्रागनुनुती । वैद्यकं चिकिसितम् । प्रागनुनुतीच वैद्यकं च विद्या च प्रागनुनुतिवैद्यकविद्याः । एतेपि चत्वारः। वशो वशीकरणं मन्त्रश्च चूर्णश्च वशश्च मन्त्रचूर्णवशास्त्रयः । उत्पादना भण्यन्ते । के ते ? धात्री दूतो निमित्तं वनीपकवचनमाऽऽजीवः क्रोधो मानो माया लोभः पूर्वस्तवनं पश्चात् स्तवनं वैद्यकं विद्या मन्त्रश्चूण वशश्चेति षोडश । पञ्चविधं धात्रीदोषमाह - मार्जनक्रीडनस्तन्यपानस्वापनमण्डनम् । बाले प्रयोक्तुर्यत्प्रीतो दत्ते दोषः स धात्रिका ॥ २० ॥ Jain Education International स दोषो धात्रिका धात्रीसंज्ञा भण्यते । यत्किम् ? यद्दत्ते प्रयच्छति गृही । किंविशिष्टः सन् ? प्रीतोऽनुरक्तः । कस्य ? प्रयोक्तुः स्वयंकर्तुः कारयितुरुपदेष्टुर्वा यत्यादेः । किं तत् ? मार्जनेत्यादि । क ? बाले डिम्भे । मार्जनं च क्रीडनं च स्तन्यपानं च स्वापनं च मण्डनं चेति समाहारद्वन्द्वः । प्रयुङ्क्ते साधुत्वेनेति प्रयोक्ता । " न क्रीत लोकखार्थातृनाम्" इति षष्ठीप्र तिषेधान्मार्जनेत्यादौ कर्मणि द्वितीया । एवं च पञ्चधात्वं धातृदोषस्य सूत्रितं बोद्धव्यम् । पञ्चधा हि धात्री मार्जनमंडनखेलास्वापनक्षीराम्बुधात्रिभेदात् । मार्जनादिभिश्च कर्मभिर्बाले प्रयुक्तैर्भोजनादिकमुत्पाद्य भजतो - For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy