________________
पञ्चमोऽध्यायः ।
ऋजुवृत्त्या त्रिसप्तभ्यः प्राप्तं वेश्मभ्य आदतम् । ततः परत आनीतं विपरीतमनादृतम् ॥ स्वपरग्रामदेशेषु चतुर्धाभिहृतं परम् । प्राक्पश्चात्पादकानां च तेषामप्येवमादिशेत् ॥ उद्भिन्नाच्छेद्यदोषयोः स्वरूपं निरूपयति —
पिहितं लाञ्छितं वाज्यगुडाद्युद्घाट्य दीयते । यत्तदुद्भिन्नमाच्छेद्यं देयं राजादिभीषितैः ॥ १७ ॥
तदुद्भिन्नं भण्यते यत्किंचिद्दीयते दायकैः साधुभ्यः । किं तत् ? आज्यगुडादि घृतगुडखण्डखर्जूरादि । किं कृत्वा ? उद्घाट्य अपावृत्य । किंविशिष्टं सत् ? पिहितं पिधानेन कर्दमलाक्षादिना संवृतम् । वा अथवा लाञ्छितं नामबिम्बादिना मुद्रितम् । दोषत्वं चात्र पिपीलिकादिप्रवेशदर्शनात् यत्तु राजादिभीषितैर्नृपामात्यादिभिर्भयं नीतेः कुटुम्बिकैर्देयं संयतेभ्यो भोजनं दीयते तदाच्छेद्यमिति भण्यते | यदा हि संयतानां भिक्षाश्रमं दृष्ट्वा राजा तत्तुल्यो वा चौरादिर्वा कुटुम्बिकान् यदि संयतानामागतानां भिक्षादानं न करिष्यथ तदा युष्माकं द्रव्यमपहरिष्यामो ग्रामाद्वा निर्वासयिष्याम इति भीषयित्वा दापयति तदा दीयमानमाच्छेद्यनामा दोषः स्यात् । उक्तं च
संयतश्रममालोक्य भीषयित्वा प्रदापितम् । राजचौरादिभिर्यत्तदाच्छेद्यमिति कीर्तितम् ॥
३४५
मालारोहणदोषमाह
निश्रेण्यादिभिरारुह्य मालमादाय दीयते । यद्रव्यं संयतेभ्यस्तन्मालारोहणमिष्यते ॥ १८ ॥
इष्यते सूरिभिस्तत् । किम् ? मालारोहणम् । यत्किम् ? यद्दीयते द्रव्यं भक्तादि । केभ्यः ? संयतेभ्यः । किं कृत्वा ? आदाय गृहीत्वा मालात् । किं कृत्वा ? आरुह्य चटित्वा । किं तत् ? मालं गृहोर्ध्व भागम् ।
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org