________________
३४४
अनगारधर्मामृते
यदाऽव्यक्तेश्वरेण वारितं गृह्णाति तदाऽव्यक्तेश्वरो नाम । यदैकेन दानपतिना व्यक्तेन द्वितीयेन चाव्यक्तेन च वारितं गृह्णाति तदा व्यक्ताव्यक्तेश्वरो नाम तृतीय ईश्वराख्य निषिद्धभेदस्य भेदः स्यात् । एवमनीश्वरेपि व्याख्येयम् । यच्चैकेन दीयतेऽन्येन च निषिद्धत्वेनेष्यते वा तदपि गृह्यमाणं दोषाय स्याद् विरोधापायाद्यनुषङ्गाविशेषात् । यत्पुनः,
"अणिसिटुं पुण दुविहं ईसरमहणीसरं च दुवियप्पं ।
पढमेस्सरसारक्खं वत्तावत्तं च संघाडं ॥” इति । अस्याचारटीकायां बहुधा व्याख्यातम् । तदत्रैव कुशलैः सुबुद्ध्यावतारयितुं शक्यते इति न सूत्रविरोधः शयः ।
अभिहृतदोषं व्याचष्टेत्रीन् सप्त वा गृहान् पङ्क्त्या स्थितान्मुक्त्वान्यतोऽखिलात् । देशादयोग्यमायातमन्नाद्यभिहृतं यतेः॥ १६ ॥
भण्यते । किं तत् ? अभिहृतम् । यत्किम् ? यदायातमागतम् । किं तत् ? अन्नादि भक्तौषधादि । कस्मात् ? देशात् । किंविशिष्टात् ? अन्यत उक्तविपरीतगृहलक्षणात् स्वपरग्रामदेशलक्षणाच्च । किं कृत्वा ? मुक्त्वा वर्जयित्वा। कान् ? गृहान् । किंविशिष्टान् ? स्थितान् व्यवस्थितान् । कया ? पङ्क्त्या श्रेण्या । कति ? त्रीन्सप्त वा । किंविशिष्टादन्यतो देशात् ? अखिलात् । सर्वस्मात् । किंविशिष्टं यतः ? अयोग्यम् । कस्य ? यतेः । अभिहृतं हि द्विविधं, देशाभिहृतं सर्वाभिहृतं च । देशाभिहृतं पुनद्वैधा आइतमनादृतं च । सर्वाभिहृतं तु चतुर्धा; स्वग्रामादागतं, परनामादागतं, स्वदेशादागतं, परदेशादागतं चेति । यत्र ग्रामे स्थीयते स स्व. ग्रामः । तत्र पूर्वपाटकादपरपाटकेऽपरपाटकाच्च पूर्वपाटके भोजनादेनयनं स्वग्रामाभिहृतं, प्रचुरेर्यापथदोषदर्शनात् । एवं शेषमप्यूह्यम् । तथा चोक्तम्
देशतः सर्वतो वापि ज्ञेयं त्वभिहृतं द्विधा। आहतानादृतत्वेन स्याद्देशाभिहृतं द्विधा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org