________________
पञ्चमोऽध्यायः।
३४३
ध्यण् । दोषत्वं चास्य दातुः क्लेशायासधरणादिकदर्थनकरणात् । तत्परिवर्तितं स्यात् । यत्किम् ? यच्छाल्यन्नादि शाल्योदनमुद्गादि । किंविशिष्टम् ? उपात्तं साधुभ्यो दास्यामीति गृहीतम् । केन ? व्रीहन्नाद्येन षष्टिकभक्तमाषादिना । उक्तं च
व्रीहिभक्तादिभिः शालिभक्ताद्यं स्वीकृतं हि यत् ।
संयतानां प्रदानाय तत्परीवर्तमिष्यते ॥ दोषत्वं चास्य दातुः क्लेशसंक्लेशकरणात् । निषिद्धं सभेदप्रभेदमाह
निषिद्धमीश्वरं भर्ता व्यक्ताव्यक्तोभयात्मना ।
वारितं दानमन्येन तन्मन्येन त्वनीश्वरम् ॥ १५॥ भण्यते । किं तत् ? दानं दीयमानमोदनादिकम् । किंविशिष्टम् ? निषिद्धम् । किमाख्यम् ? ईश्वरम् ईश्वरनिषिद्धमित्यर्थः । यत्किम् ? यद्वारितं प्रतिषिद्धम् । केन ? भी प्रभुणा । किंविशिष्टेन ? व्यक्ताव्य. तोभयात्मना । व्यक्तः प्रेक्षापूर्वकारी वा वृद्धो वाऽसारक्षो वा। आरक्षा मन्यादयः । सहारझर्वर्तते इति सारक्षः स्वामी । न सारक्षोऽसारक्षः । स्वतन्त्र इत्यर्थः । अव्यक्तोऽप्रेक्षापूर्वकारी वा वालो वा सारक्षो वा । उभयो व्यक्ताव्यक्तरूपः । व्यक्तवाव्यक्तश्चोभयश्च व्यक्ताव्यक्तोभयाः । व्यक्ताव्यक्तोभया आत्मानो रूपाणि यस्य स व्यक्ताव्यक्तोभयात्मा, तेन । व्यक्तरूपेणाव्यक्तरूपेण व्यक्ताव्यक्तरूपेण च स्वामिना वारितं दानमीश्वराख्यं निषिद्धं त्रिधा स्यात् । व्यक्तेश्वरनिषिद्धमव्यक्तेश्वरनिषिद्धं व्यक्ताव्यक्तेश्वरनिषिद्धं चेति । तथा भण्यते । किं तत् ? दानम् । किंविशिष्टम् ? निषिद्धम् । किमाख्यम् ? अनीश्वरम् । अनीश्वरनिषिद्धमित्यर्थः । यत्किम् ? यद्वारितम् । केन ? अन्येन । भर्तुरपरेणामात्यादिना । किं विशिष्टेन ? तन्मन्येन भतारमात्मानं मन्यमानेन । पुनः किंविशिष्टेन ? व्यक्ताव्यक्तोभयात्मना। तुर्विशेष। तद्यथा-निषिद्धाख्यो दोषस्तावदीश्वरोऽनीश्वरश्चेति द्वेधा । तत्राप्याद्यस्नेधा। व्यक्तेश्वरेण वारितं दानं यदा साधुगृह्णाति तदा व्यक्तेश्वरो नाम दोषः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org