________________
अनगारधर्मामृते
दीनां भस्मादिनोदकादिना वा निर्मार्जनं प्रदीपज्वालनादिकं च प्रकाशाख्योऽयं प्रादुष्कारो दोषः स्यात् । एवं च संक्रमः प्रकाशश्चेति द्विविधः प्रादु. कारो बोध्यः । उक्तं च
संक्रमश्च प्रकाशश्च प्रादुष्कारो द्विधा मतः। एकोत्र भाजनादीनां कटादिविषयोऽपरः॥ स्वेत्यादि । स्वस्थात्मनः सचित्तद्रव्यैर्वृषभादिभिरचित्तद्रव्यैर्वी सुवर्णादिभिर्भावैर्वा प्रज्ञप्त्यादिविद्याचेटकादिमन्त्रलक्षणैः अन्यस्य वा परस्य तैरुभयैव्यभावैर्यथासंभवमाहृतं संयते भिक्षायां प्रविष्टे तान् दत्वा नीतं यद्भोज्यद्रव्यं तत्क्रीतमिति दोषः । कारुण्यदोषदर्शनाद् गौरुपलक्षणादृषभा. दिचेतनद्रव्यमर्थः सुवर्णादिरचेतनद्रव्यं, विद्याप्रज्ञप्त्यादिर्भावः। आद्यशब्दाच्चेटकमन्त्रादयश्च । गौश्वार्थश्च विद्याद्याश्च गोर्थविद्याद्याः । स्वान्ययोः स्वपरयोगोर्थविद्याद्याः स्वान्यगोर्थविद्याद्यास्तैः । स्वस्य परस्य च गवादिचेतनद्व्यः सुवर्णाद्यचेतनद्रव्यैः प्रज्ञप्त्यादि विद्याख्यैश्चेटकमन्त्रादिभिश्च भावै. रित्यर्थः । उक्तं च
क्रीतं तु द्विविधं द्रव्यं भावः स्वकपरं द्विधा ।
सचित्तादिभवो द्रव्यं भावो विद्यादिकं तथा ॥ प्रामित्यपरिवर्तितयोः स्वरूपमाह
उद्धारानीतमन्नादि प्रामित्यं वृद्ध्यवृद्धिमत् ।
बीह्यन्नाद्येन शाल्यन्नाद्युपात्तं परिवर्तितम् ॥ १४ ॥ भण्यते । किम् ? प्रामित्यम् । यत्किम् ? यदन्नादि । किंविशिष्टम् ? उद्धारानीतमृणं कृत्वा गृहीतम् । तच्च किंविशिष्टम् ? वृद्ध्यवृद्धिमत् । वृद्धिश्चावृद्धिश्च वृद्ध्यवृद्धी । ते अस्यास्मिन्वा स्तः । सवृद्धिकमवृ. द्धिकं चेत्यर्थः । उक्तं च
भक्तादिकमृणं यच्च तत्प्रामित्यमुदाहृतम् ।
तत्पुनर्द्विविधं प्रोक्तं सवृद्धिकमथेतरत् ॥ . प्रमीयते स प्रमितम् । प्रमितमेव प्रामित्यम् । चातुर्वर्यादिभ्यः स्वार्थे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org