________________
पञ्चमोऽध्यायः।
स्थितं तदुत्कृष्य शुक्ले यद्दीयते, इत्यादि । तत्सर्वं कालवृद्धिकृतं वादरं प्राभृतकमुच्यते । तथा यन्मध्याह्ने देयमिति स्थितं तदपकृष्य पूर्वाह्ने यहीयते। यच्चापराह्ने देयमिति स्थितं तदपकृष्य मध्याह्ने यद्दीयते, इत्यादि तत्सर्वं कालहानिकृतं सूक्ष्मं प्राभृतकं कथ्यते । तथा यत्पूर्वाह्ने देयमिति स्थितं तदुत्कृष्य मध्याह्नादौ यद्दीयते तत्सर्वं कालवृद्धिकृतं सूक्ष्मं प्राभृतकमिष्यते । तथा चोक्तम्
द्वेधा प्राभृतकं स्थूलं सूक्ष्म तदुभयं द्विधा । अवसर्पस्तथोत्सर्पः कालहान्यतिरेकतः॥ परिवृत्त्या दिनादीनां द्विविधं बादरं मतम् । दिनस्याद्यन्तमध्यानां द्वेधा सूक्ष्मं विपर्ययात् ॥ बलिं न्यस्तं च लक्षयति;यक्षादिबलिशेषो सावधं वा यतौ बलिः । न्यस्तं क्षिप्त्वा पाकपात्रात्पात्यादौ स्थापितं कचित् ॥१२॥
यक्षादिबलिशेषो यक्षनागमातृकाकुलदेवतापित्राद्यर्थं यः कृतो बलिरुपहारः । तस्य शेषो दत्तावशिष्टोंशो यतो संयते प्रयुज्यमानो बलिरुच्यते । वा अथवा अर्चासावद्यं चन्दनोद्गालनादिकं यतौ यतिनिमित्त. म् । बलिरुच्यते पाकपात्रादुद्धृत्य पात्यादौ क्षिप्त्वा प्रक्षिप्य कचिस्व. गृहे परगृहे वा स्थापितं स्थापनिकायां तमन्नं न्यस्तमुच्यते । पातिः पात्रविशेषः । आदिः पात्रान्तरग्रहणार्थः । न्यस्तं हि स्थापकादन्येन दी. यमानं विरोधादिकं कुर्यादिति दुष्टम् । प्रादुष्कारं क्रीतं च निर्दिशतिपात्रादेः संक्रमः साधौ कटाद्याविष्क्रियाऽऽगते । प्रादुष्कारः स्वान्यगोर्थविद्याद्यैः क्रीतमाहृतम् ॥ १३ ॥ साधौ संयते आगते गृहमायाते सति पात्रादेः संक्रमो भोजनमाजनादीनामन्यस्थानादन्यस्थाने नयनं संक्रमाख्यः प्रादुष्कारो दोषः स्यात् । कटाद्याविष्क्रिया तु कटकपाटकाण्डपटाद्यपनयनं भाजना.
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org