SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृते अप्पांसुएण मिस्सं पासुयदव्वं तु पूतिकम्मं तु। चुल्लीउखलीदवीभायणगंधीति पंचविहं ॥ मिश्रदोषं लक्षयतिपापण्डिभिर्गृहस्थैश्च सह दातुं प्रकल्पितम् । यतिभ्यः प्रासुकं सिद्धमप्यन्नं मिश्रमिष्यते ॥१०॥ इष्यते सूरिभिः । किम् ? अन्नम् । किंविशिष्टम् ? प्रासुकमचित्तं कृत्त्वा सिद्धं निष्पन्नमपि । किमिष्यते ? मिश्रम् । किं विशिष्टं सत् ? प्रकल्पितम् । किं कर्तुम् ? दातुम् । केभ्यः ? यतिभ्यः । कथम् ? सह । कैः ? पाषण्डिभिगृहस्थैश्च पाषण्डिगृहस्थैः सहितेभ्यः संयतेभ्यः । इदं दास्यामीति सज्जीकृतमित्यर्थः । कालहानिवृद्धिभ्यां द्वैविध्यमालम्बमानं स्थूलं सूक्ष्मं च प्राभृतकं सूचयति यदिनादौ दिनांशे वा यत्र देयं स्थितं हि तत् । प्राग्दीयमानं पश्चाद्वा ततः प्राभृतकं मतम् ॥ ११ ॥ मतमिष्टम् । किं तत् ? तत्प्राभृतकम् । किं क्रियमाणम् । दीयमानम् । कथम् ? प्राक् पूर्वम् । कस्मात् ? ततो दिनादेर्दिनाशाद्वा । न केवलं प्राक्, पश्चाद्वा । यत्किम् ? यत्स्थितमागमे व्यवस्थितम् । कथं कृत्वा ? देयम् । व? यत्रास्मिन् दिनादौ दिने पक्षे मासे वर्षे वा । न केवलं, दिनांशे वा पूर्वाह्लादौ । कथम् ? हि नियमेन । तथा हि-यच्छुक्लाष्टम्यां देयमिति स्थितं तदपकृष्य शुक्लपञ्चम्यां यद्दीयते यच्च चैत्रस्य सिते पक्षे देयमिति स्थितं तदपकृष्य कृष्णे यद्दीयते, इत्यादि । तत्सर्वं कालहानिकृतं वादरं प्राकृत भण्यते । ततः यच्छुक्लपञ्चम्यां देयमिति स्थितं तदुत्कृष्य शुक्लाष्टम्यां यदीयते । यच्च चैत्रस्य कृष्ण पक्षे देयमिति १-अप्रासुकेन मिश्रं प्रासुकद्रव्यं तु पूतिकर्म तु । चुल्लीउदूखलीद-भाजनगन्धीति पंचविधम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy