________________
पञ्चमोऽध्यायः।
केषाम् ? तण्डुलादीनाम्। तण्डुला आदयो येषां मुद्गादीनां त एवम् । क? स्वपाके स्वस्य दातुरात्मनो निमित्तं पच्यमाने तण्डुलादिधान्ये जले वाधिश्रिते, पच्यते इति पाकः । स्वस्मै पाकः स्वपाकस्तस्मिन् । कस्यै ? यतिदत्तये। अद्य संयतं भोजयिष्यामीति संकल्पनेत्यर्थः । दानं दत्तिः । यतये दत्तिर्यतिदत्तिस्तस्यै । प्रकारान्तरेण तमेव लक्षयितुमाह-वा शब्दः पक्षान्तरसूचने । स्याद्वाऽध्यधिरोधाख्यो दोषः । यत्किम् ? यत्क्रियते। कोसौ? रोधः पूजाधर्मप्रश्नादिव्याजेनावस्थापनम् । कस्य ? यतेः । कियत्कालम् ? आपचनात् पाकान्तं यावत् । अप्रासुकमिश्रणपूतिकर्मकल्पनाभ्यां द्विविधं पूतिमाहपूति प्रासु यदनासुमिश्रं योज्यमिदंकृतम् । नेदं वा यावदार्येभ्यो नादायीति च कल्पितम् ॥ ९॥ तद्रव्यं पूति पूतिदोषदुष्टं भण्यते । यत्किम् ? यदप्रासुमिश्रं खरूपेण प्रासुकमपि सदप्रासुमिश्रमप्रासुकशबलम् । अयमाद्योऽप्रासुकमिश्र णाख्यः पूतिभेदः । अथ द्वितीयः पूतिकर्मकल्पनाख्यस्तछेदो लक्ष्यते । तच्च पूति भण्यते । यत्किम् ? यत्कल्पितमुत्प्रेक्षितम् । कथम् ? इति । किमिति ? तावन्न योज्यम्। किं तत् ? इदंकृतमनेन चुल्यादिनास्मिन्वा
चुल्यादौ कृतं साधित्तमिदंकृतं वस्तु इदं वा भोजनगन्धादिकम् । यावत् किम् ? यावन्नादायि न दत्तमिदंकृतमिदं वा वस्तु । केभ्यः ? आर्येभ्यः साधुभ्यः । तथाहि, अस्यां चुल्यां भोजनादिकं निष्पाद्य यावत्साधुभ्यो न दत्तं तावदात्मन्यन्यत्र वा नोपयोक्तव्यमिति । पूतिकर्मकल्पनाप्रभव एकः पूतिदोषः। एवमुदूखलदर्वीपात्रशिलास्वपि कल्पनया चत्वारोन्येभ्यूह्या । उक्तं चमिश्रमप्रासुना प्रासु द्रव्यं पूतिकमिष्यते ।
चुलिकोदुखलं दीपात्रगन्धौ च पञ्चधा ॥ गन्धोत्र शिला इदं वेत्याचारटीकामतसंग्रहार्थमुक्तम् । तथा हि-"यावदिदं भोजनं गन्धो वा ऋषिभ्यो नादायि न तावदात्मन्यन्यत्र वा कल्पते"। उक्तं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org