________________
३३८
अनगारधर्मामृते
ण्याकीर्त्यादिग्रहः । दैन्यमा दिर्येषां ते दैन्यादयः। हिंसा चानादरश्चान्यस्पर्शश्च दैन्यादयश्च हिंसानादान्यस्पर्शदैन्यादयः । तैोगो यथासंभवं संबन्धस्तस्माद्धेतोस्तं वाश्रित्य । यथोद्देशस्तथा निर्देश इत्यौद्देशिकं सामान्यविशेषाभ्यां निर्दिशतितदौदेशिकमन्नं यदेवतादीनलिङ्गिनः । सर्वपाषण्डपार्श्वस्थसाधून वोद्दिश्य साधितम् ॥७॥ भण्यते । किं तत् ? तदन्नं भक्तमौषधाद्यपि च । किंविशिष्टम् ? औद्देकम् । यत्किम् ? यत् साधितं निष्पादितं दायकेन । किं कृत्वा ? उदिश्य निमित्तीकृत्य । कान् ? देवतादीनलिङ्गिनः । देवता नागयक्षादयः । दीनाः कृपणाः । लिङ्गिनो जैनदर्शनबहिर्भूतानुष्ठानाः पापण्डाः । देवताश्च दीनाश्च लिङ्गिनश्च त एवं । वा अथवा तदौद्देशिकमन्नं भण्यते यत्साधितम् । किं कृत्वा ? उद्दिश्य । कान् ? सर्वपाषण्डपार्श्वस्थसाधुन् । सर्वेsविशेषेण गृहस्थपाषण्डादयः पाषण्डाः प्रागुक्तलक्षणाः । पार्थस्था अवसन्नादयः पञ्च । तल्लक्षणं यथा-- " वृत्तेऽलसोऽवसन्नः पार्श्वस्थो मलिनपरदृशेष्टेऽनिष्टे । संसक्तो मृगचरितः स्वकल्पिते प्रकटकुचरितस्तु कुशीलः॥" साधवो निर्ग्रन्थाः । सर्वे च पापण्डाश्च पार्श्वस्थाश्च साधवश्व त एवम् । सर्वाद्युद्देशेन च कृतमन्नं क्रमेणोद्देशा दिभेदाच्चतुर्धा भवति । तथा हि, यः कश्चिदायास्यति तस्मै सर्वस्मै दास्यामीति सामान्योद्देशेन साधितमुद्देश इत्युच्यते । एवं पापण्डानुद्दिश्य साधितं समुद्देशः, पार्श्वस्थानादेशः, साधूंश्च समादेश इति । साधिकं द्विधा लक्षयतिस्थाद्दोषोध्यधिरोधो यत्स्वपाके यतिदत्तये । प्रक्षेपस्तण्डुलादीनां रोधो वाऽऽपचनाद्यतेः ॥ ८ ॥ स्यात् । कोसौ ? दोषः। किमाख्यः ? अध्यधिरोधः । साधिकस्य संज्ञान्तरमेतत् । यत्किम् ? यद्दायकेन क्रियते । कोसौ ? प्रक्षेप आवापः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org