________________
पञ्चमोऽध्यायः।
karana...................
ज्यम् । गार्हस्थ्यमेतद्धि वैयावृत्त्यादि विमुक्तमात्मभोजननिमित्तं यद्येतत्कुर्यात् तदा न श्रमणः, किंतु गृहस्थः स्यात् । उक्तं च
छजीवणिकायाणं विराहणोद्दावणेहि णिप्पण्णं ।
आधाकम्मं णेयं सयपरकदमादसंपण्णं ॥ उद्गमोत्पादनानामन्वर्थतां दर्शयतिभक्ताद्युद्गच्छत्यपथ्येयैर्यैरुत्पाद्यते च ते । दातृयत्योः क्रियाभेदा उद्गमोत्पादनाः क्रमात् ॥ ४॥ भण्यन्ते ते । के ? क्रियाभेदा व्यापारविशेषाः । कयोः ? दातृयत्योदायकपात्रयोः । किमाख्याः ? उद्गमोत्पादनाः । कस्मात् ? क्रमाद् यथासंख्येन । यैः किम् ? यैतृक्रियाभेदैः करणभूतैरुद्गच्छत्युत्पाद्यते । किं तत् ? भक्तादि आहारौषधादिद्रव्यम् । किंविशिष्टैः ? अपथ्यैः । पथोनपेताः पथ्याः । न पथ्या अपथ्या मार्गविरोधिनस्तैः । रत्नत्रयोपघातिभिरित्यर्थः । उद्गच्छन्त्येभिरित्युद्गमाः । "पुंखौ पः प्रायेण" इति प्रायग्रहणाद्धलन्तादपि करणे घः । यैश्च यतिक्रियाभेदैः करणभूतैरुत्पाद्यते । किं तत् ? भक्तादि । किं विशिष्टैः ? अपथ्यैः । उत्पाद्यते भक्तादिकमपथ्यैरेभिरित्युत्पादना । “करणाधिकरणयोः ” इति युट्, न त्वजन्तत्वात् "पुंखौ घः प्रायेण" इति धः, प्रायग्रहणादेव । उद्गमभेदानामुद्देशानुवादपुरःसरं दोषत्वं समर्थयितुं श्लोकद्वयमाहउदिष्टं साधिकं पूति मिश्रं प्राभृतकं बलिः । न्यस्तं प्रादुष्कृतं की प्रामित्यं परिवर्तितम् ॥ ५ ॥ निषिद्धाभिहृतोद्भिन्नाच्छेद्यारोहास्तथोद्गमाः । दोषा हिंसानादरान्यस्पर्शदैन्यादियोगतः ॥ ६॥ (युग्मम्) उद्दिष्टमौदेशिकम् । प्रादुष्कृतं प्रादुष्कराख्यः । उद्दिष्टादयो यथोद्दिष्टाः षोडशोद्गमा उद्गमभेदा दोषा तथा भवन्ति । कस्मात् ? हिंसेत्यादि । अन्यस्पर्शः पार्श्वस्थपाषण्डादिछुतम् । दैन्यं कार्पण्यम् । आदिशब्देन विरोधकारु.
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org