________________
अनगारधर्मामृते
भवन्ति । के ? उद्गमा उद्गमाख्या दोषाः प्राग्निर्दिष्टस्य दोषैरित्यस्य विभक्तिपरिणामेन संबन्धः । किमात्मानः ? प्रयोगाः अनुष्ठानविशेषाः ? कस्य ? दातुर्दायकस्य । कस्मिन्विषये ? भक्तादौ आहारौषधवसत्युपकरणप्रमुखे देयवस्तुनि । किं विशिष्टे ? यत्यर्थे संयतनिमित्ते । कति ? षोडश फिविशिष्टास्ते ? औद्देशिकाद्याः संयतमुद्दिश्य भक्तादिकल्पनसंकल्प उद्देशः । उद्देशः प्रयोजनमस्येत्यौद्देशिकः । औद्देशिक आद्यो येषां साधकादीनां त एवम् । तथा भवन्ति । के ? उत्पादना उत्पादनाख्या दोषाः किमात्मानः ? प्रयोगाः । कस्य ? यतेः। क विषये ? भक्तादौ, अर्थात्स्वार्थे । कति ? षोडश । किंविशिष्टास्ते ? धाव्याद्या धात्री आद्या येषां दूतादीनां ते धाग्याद्याः। अपरदोषोद्देशार्थमाहशङ्किताद्या दशान्नेऽन्ये चत्वारोङ्गारपूर्वकाः । षट्चत्वारिंशदन्योऽधःकर्म सूनाङ्गिहिंसनम् ॥३॥ भवन्ति । के ? दोषाः । क ? अन्ने । आहाराश्रिता दोषा इत्यर्थः । किंविशिष्टाः ? शङ्किताद्याः शङ्किता आद्या येषां पिहितादीनां त एवम् । कति ? दश । तथा भवन्ति । के ? अन्ये शङ्कितादिभोज्यदोषेभ्यो भिन्ना।। भुक्तिदोषा इत्यर्थः । किंविशिष्टाः? अङ्गारपूर्वकाः । अङ्गारः पूर्वो येषां धूमादीनां त एवम् । कति ? चत्वारः। एते मीलिताः षट्चत्वारिंशत् । भवति । कोसौ ? दोषः । किम् ? अधःकर्म अधःकर्माख्यः । किंविशिष्टः ? षट्चत्वारिंशदन्यः षट्चत्वारिंशतः पिण्डदोपेभ्योऽन्यो भिन्नोयं दोषो, महादोषत्वात् । किंरूपमधःकर्म ? सूनाङ्गिहिंसनम् । सूनाश्शुल्ली पेषणी कण्डनी संमार्जन्युदकुम्भश्चेति पञ्च हिंसास्थानानि । सूनाभिरङ्गिनां षड्जीवनिकायानां हिंसनं दुःखोत्पादनं मारणं वा। अथवा सूनाश्चाङ्गिहिंसनं चेति ग्राह्यम् । एतेन वसत्यादि निर्माणसंस्कारादिनिमित्तमपि प्राणिपीडनमधः. कमैं वेत्युक्तं भवति । अत एवाधोगतिनिमित्तं कर्माधःकर्मेत्यन्वर्थोऽपि घटते । तदेतदधःकर्म गृहस्थाश्रितो निकृष्टव्यापारः । अथवा सूनाभिरङ्गिहिंसनं यत्रोत्पाद्यमाने भक्तादौ तदधःकर्मेत्युच्यते, कारणे कार्योपचारात् । तच्चात्मना कृतं परेण वा कारितं परेण कृतमात्मनानुमतं दूरतः संयतेन त्या.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org