________________
अथ पञ्चमोध्यायः ॥५॥
अथैवं सम्यक्चारित्राराधनां व्याख्यायेदानीं विनाङ्गारादीत्येपणासमितिसूत्राङ्गभूताम्
"उद्गमोत्पादनाहारसंयोगः सप्रमाणकः । अङ्गारधूमौ हेतुश्च पिण्डशुद्धिर्मताष्टधा॥" इत्यष्टप्रकारां पिण्डशुद्धिमभिधातुकामः प्रथमं तावत् पिण्डस्य संक्षेपतो विधिनिषेधमुखेन योग्यायोग्यत्वे निर्दिशतिषट्चत्वारिंशता दोषैः पिण्डोऽधःकर्मणा मलैः। द्विसप्तैश्चोज्झितोऽविघ्नं योज्यस्त्याज्यस्तथार्थतः ॥ १ ॥
योज्य उपयोक्तव्यः साधुना । साधोरुपयोक्तुं योग्य इत्यर्थः । "तृज्व्याश्चाहे” इत्यनेनाझै व्यः । एवं त्याज्य इत्यत्रापि । कोसौ ? पिण्ड आहारः । उपलक्षणादौषधाद्यपि । कस्मात् ? अर्थतो निमित्तं प्रयोजनं चाश्रित्य । न केवलं योज्यस्त्याज्यस्तथा वर्जनीयश्चार्थतः । कथं योज्यः ? अविघ्नं विघ्नानामन्तरायाणामभावे सत्यभान वा हेतुना। किंविशिष्टः सन् ? उज्झितो मुक्तः । कैः ? दोषैः । कतिभिः ? षट्चत्वारिंशता। तत्रोद्गमदोषाः षोडश, उत्पादनदोषाः षोडश, शङ्कितादिदोषा दश, अङ्गारधूमसंयोजनप्रमाणदोषाश्चत्वारश्चेति षट्चत्वारिंशत् । तथाऽधःकर्मणा वक्ष्यमाणलक्षणेनोज्झितः पिण्डो योज्यः तथा मलैः पूयाश्रादिभिरुज्झितः पिण्डो योज्यः । कतिभिः ? द्विसप्तैश्चतुर्दशभिः द्विः सप्तेति विगृह्य "संख्याबाड्डोऽबहुगणात्" इति डः ।
उद्गमोत्पादनदोषाणां स्वरूपसंख्यानिश्चयार्थमाहदातुः प्रयोगा यत्यर्थे भक्तादौ षोडशोगमाः । औदेशिकाद्या धान्याद्याः पोडशोत्पादना यतेः ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org