________________
३३४
अनगारधर्मामृतेrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrr. तत्कर्तृ ? अभ्यन्तरं तपः । किं तत् ? पापम् । “तपसा निर्जरा च" इति चचनात् ।
उक्तमेवार्थ स्पष्टयनाहत्यक्तसुखोऽनशनादिभिरुत्सहते वृत्त इत्यघं क्षिपति । प्रायश्चित्तादीत्यपि वृत्तेन्तभवति तप उभयम् ॥ १८३ ॥
अन्तर्भवति । किं तत् ? तपः। किं विशिष्टम् ? उभयं बाह्यमभ्यन्तरं च । क ? वृत्ते । यत उत्सहते साधुः । कैः ? अनशनादिभिः । क ? वृत्त । किं विशिष्टः सन् ? त्यक्तसुखः । यतश्च क्षिपति । किं तत् ? प्रायश्चित्तादि तपः कर्तृ । किं तद् ? अघं पापम् । अपिः समुच्चये। इति भद्रम् । (ग्रन्थसंख्या २६१५)
यो धर्मामृतमुद्दधार सुमनस्तृप्त्यै जिनेन्द्रागमक्षीरोदं शिवधीनिमथ्य जयतात् स श्रीमदाशाधरः। भव्यात्मा हरदेव इत्यभिधया ख्यातश्च नन्द्यादिम, टीकाशुक्तिमचीकरत् सुखमिमां तस्योपयोगाय यः॥ इत्याशाधरविरचितायां स्वोपज्ञधर्मामृतानगारधर्मटीकायां · भव्यकुमुदचन्द्रिकासंज्ञिकायां सम्यकूचारित्रा
राधनीयश्चतुर्थोध्यायः ॥ ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org