SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः। सम्मायिढिस्स वि अविरदस्त ण तओ महागुणो होइ । होदि क्खु हथिलाणं बुन्दच्छुदकम्मतत्तस्स ॥ तं संयम यो निरीहो लाभादिनिरपेक्षः सन् सदा नित्यमुपास्ते सेवते । किमिव ? इष्टदैवतमिवाभिमतदेवतां यथा । स भवेत् । किम् ? मङ्गलं पापक्षपणपुण्यप्रदान निमित्तम् । किंविशिष्टम् ? एकमुत्कृष्टम् । केषाम् ? जगतां बहिरात्मप्राणिनाम् । किं विशिष्टः सन् ? किं कुर्वाणमरुद्गणः किं करोमीत्यादेशप्रार्थनपरशकादिदेवनिकायः ॥ इति चारित्रमाहात्म्यव्यावर्णनप्रकरणम् । तपसश्चारित्रेन्तर्भावमुपपादयन्नाह कृतसुखपरिहारो वाहते यच्चरित्रे, न सुखनिरतचित्तस्तेन बाह्यं तपः स्यात् । परिकर इह वृत्तोपक्रमेऽन्यत्तु पापं, क्षिपत इति तदेवेत्यस्ति वृत्ते तपोऽन्तः ॥ १८२ ।। अस्ति भवति । किं तत् ? तपः । क ? अन्तर्मध्ये । कस्मिन् ? वृत्ते चारित्रे । द्वितयमपि तपश्चारित्रेन्तर्भवतीत्यर्थः । कथम् ? इति अनेन प्रकारेण यद् यस्मादू वाहते प्रयतते । कोसौ ? कृतसुखपरिहारः पुरुषः । कृतः सुखस्य शरीरद्वारायातशर्मणः परिहारस्त्यागो येन स एवम् । क्क ? चरित्रे । न वाहते चरित्रे । किंविशिष्टः सन् ? सुखनिरतचित्तो देहसुखासक्तचेताः । तेन कारणेन बाह्यमनशनादि तपः स्यात् । किम् ? परिकरः परिकर्म । क ? इहास्मिन् वृत्तोपक्रमे । ज्ञात्वारम्भ उपक्रमः । वृत्तस्योपक्रमो वृत्तोपक्रमस्तस्मिन् । तदुक्तम्___"बाहिरतवेण होइ खु सव्वासुहसीलदा परिचत्ता।" एवं तीभ्यन्तरं तपश्चारित्रादनातरं भविष्यतीत्यारेकायामिदमाहअन्यत्त अभ्यन्तरं तपः पुनः स्यात् । किम् ? तदेव वृत्तमेव । कुतो हेतोः ? इति यतः क्षिपते उपात्तं विनाशयत्यपूर्व निरुणद्धि च । किं १ सम्यग्दृष्टेरपि अविरतस्य न तपो महा गुणं भवति। भवति खलु हस्तिस्त्रानं ... ... ... तस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy