________________
३३२
अनगारधर्मामृते
संयममन्तरेण कायक्लेशादितपोनुष्टानं बन्धसहभाविनिर्जरानिबन्धनं स्यादिति सिद्ध्यर्थिभिरसावाराध्य इत्युपदिशति
तपस्यन् यं विनात्मानमुद्वेष्टयति वेष्टयन् ।
मन्थं नेत्रमिवाराध्यो धीरैः सिद्ध्यै ससंयमः ॥१८०॥ आराध्यः सेव्यः । कोसौ ? स संयमो निश्चयेन रत्नत्रययोगपद्यप्रवृतैकाग्यलक्षणो, व्यवहारेण तु प्राणिरक्षणेन्द्रिययन्त्रणलक्षणः । कैः ? धीरैरक्षोभ्यप्रकृतिभिः । यं विना किं स्यादित्याह-उद्वेष्टयति कर्मभिर्मोचयति कोसौ ? पुरुषः । कम् ? आत्मानम् । किं कुर्वन् ? वेष्टयन् कर्मभिर्बनिन् । किं कुर्वन् सन् ? तपस्यन् आतापनादिकायक्लेशलक्षणं तपः कुर्वन् । कथम् ? विना । कम् ? यं संयमं हिंसादिषु विषयेषु च प्रवृत्त्येत्यर्थः । किमिव ? नेत्रमिव यथा नेत्रमाकर्षणपाशो मन्थं विलोडनदण्डं वेष्टयन्नुद्वेष्टयति तथा जीवोप्यात्मानम् । बन्धसहभाविनी निर्जरां करोतीत्यर्थः।
तपस्यतोपि संयम विनाऽपगतात्कर्मणो बहुतरस्योपादानं स्यादिति प्रदर्शयन् संयमाराधनां प्रति सुतरां साधूनुद्यमयितुं तत्फलं पूजातिशय. समग्रं त्रिजगदनुग्राहकत्वं तेषामुपदिशतिकुर्वन् येन विना तपोपि रजसा भूयो हृताद्भूयसा, स्नानोत्तीर्ण इव द्विपः स्वमपधीरुद्धूलयत्युद्धरः । यस्तं संयममिष्टदैवतमिवोपास्ते निरीहः सदा, किं-कुर्वाणमरुद्गणः स जगतामेकं भवेन्मङ्गलम् ॥ १८१॥
उद्धृलयति धूलिभिरुद्भूषयति । कोसौ ? अपधीरपगतबुद्धिः । कम् ? स्वमात्मानम् । किंविशिष्टो यतः ? उद्धरो मदोद्रिक्तः । केन ? रजसा पापकर्मणा । किंविशिष्टेन ? भूयसा बहुतरेण । कस्मात् ? हृतादपनीताद् द्रव्यकर्मणाः । कथम् ? भूयः पुनः । किं कुर्वन् ? कुर्वन्नाचरन् । किं तत् ? तपः । कथम् ? विना । केन ? येन संयमेन । अपिर्विस्मये। क इव ? स्नानोत्तीर्णो द्विप इव । यथा हस्ती सरसि स्नात्वा बहिर्निर्गतो जल. क्षालितरेणोः सकाशाद्वहुतरेण रजसा रेणुनात्मानसुद्धलयत्येवं प्रस्तुतोपि । उक्तं च
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org