SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः। ३३१ मुक्तिश्रीपरिरम्भशुम्भदसमस्थामानुभावात्मना, केनाप्येकतमेन वीतविपदि स्वात्माभिषिक्तः पदे ॥ १७९ ॥ पान्तु संसारव्यसनात् ब्रायन्ताम् । के ? ते पुस्पुङ्गवाः पुरुषोत्तमाः । कम् ? माम । किंविशिष्टाः ? कृताजवंजवजयाः । आजवंजवः संसारः । आजवंजवस्य जयस्तिरस्कारो, नाश इति यावद्, आजवं जवजयः । कृत आजवंजवजयो यैस्ते । केन ? केन शुद्ध निश्वयनयादव्यपदे. शेनैकेनैवात्मना । अपिशब्दादशुद्ध निश्चयनयेन पुना-रत्नत्रयेणापि । यैः किम् ? यैरभिषिक्तः प्रतिष्ठितः । कोसौ ? स्वात्मा। क ? पदे स्थाने । किंविशिष्टे ? वीतविपदि विगतविपत्तिके । केन कृत्वा ? केनापि अनिर्वचनीयेन एकतमेन परमोत्कृष्टेन । किंविशिष्टन ? मुक्तीत्यादि । मुक्तिश्रियो जीवन्मुक्तिलक्ष्म्याः परिरम्भ आलिङ्गनम् । तेन शुम्भच्छोभमानमसममसाधारणं यत्स्थाम शक्तिस्तस्यानुभावो माहात्म्यम् । स एवात्मा स्वरूपं यस्य तेन मुक्तिश्रीपरिरम्भशुम्भदसमस्थामानुभावात्मना । किं कृत्वा ? उत्पाद्य जनयित्वा । कानि ? तानि प्रसि. द्धानि सामायिकादीनि वृत्तानि चारित्राणि । कति ? पञ्च । क ? अत्र अस्मिन्भरतक्षेत्रे । कदा ? पुरा पूर्वयुगे । यदि वा अथवा तानि वृत्तानि चत्वार्युत्पाद्य, परिहारविशुद्धिसंयमस्य केषांचिदभावात् । तत्र सामयिकच्छेदोपस्थापनयोर्लक्षणं सर्वावयेत्यादौ वर्णितम् । शेषत्रयस्य विदं यथा त्रिंशद्वर्षवया वर्षपृथक्त्वे वा स्थितो जिनम् । यो गुप्तिसमित्यासक्तः पापं परिहरेत् सदा ॥ स पश्चैकयमोधीतप्रत्याख्यानो विहारवान् । स्वाध्यायद्वयसंयुक्तो गव्यूत्यर्धाध्वगो मुनिः। मध्याह्नकृद्विगम्यूतिगच्छन्मन्दं दिन प्रति । कृषीकृतकषायारिः स्यात् परीहारसंयमी ॥ सूक्षमलोभं विदन् जीवः क्षपकः शमकोपि वा। किंचिदूनो यथाख्यातात्स सूक्ष्मसांपरायकः॥ सर्वकर्मप्रभौ मोहे शान्ते क्षीणेपि वा भवेत् । छद्मस्थो वीतरागो वा यथाख्यातयमी पुमान् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy