________________
३३०
अनगारधर्मामृते
चिनोति संगृह्णाति । बनातीत्यर्थः । कोसौ ? पुरुष आत्मा । किं तत् ? किंचित्सुकृतं तत्किमपि पुण्यम् । यत्पाकेत्यादिना गत्वा संबन्धः कर्तव्यः । किं कुर्वन् ? लिहन आस्वादयन् उपयुञानः । किं तत् ? सदृग्ज्ञप्त्यमृतं सम्यग्दर्शनज्ञानपीयूषम् । तथा रहन् त्यजन् । काम् ? तृष्णांकाङ्क्षाम् । केषु ? भोगेषु विषयेषु । कथम् ? अहरहः प्रत्यहम् । तथा उपयन् उपगञ्छन् । कम् ? यत्नमुद्यमम् । क्व ? वृत्ते चारित्रे न केवलम्, उपयोगमऽथानुष्ठानं च। अथ चार्थे । एतेन चारित्रेन्त. भूतं तपो व्याख्यातं प्रतिपत्तव्यम् । यदाहुः
चरणं हितं हि जो उजमो आउजणाय जा होइ ।
सो चेव जिणेहिं तओ भणिओ असढं चरंतस्स ॥ तथा अयन् अभिभवन् । कान् ? उर्मीन् क्षुदादिपरीषहान् । कथं कृत्वा ? निर्मायं निष्कपटम् । यदुदयेन किं स्यादित्याह-ईय॑न्ति ईयां कुर्वन्ति । स्त्रीत्वान्न सहन्ते इति भावः । काः ? जगच्छ्यिस्त्रैलोक्यलक्ष्भ्यः । कस्यै ? मुक्तिश्रिये मोक्षलक्ष्म्यै । किंविशिष्टायै ? चलदृशेपि कदाक्षान्मुञ्चन्त्यै निकटसंगमायै इत्यर्थः । किं पुनः सङ्गच्छमानायै इत्यपि. शब्दार्थः । क ? तत्र तथाविधचारित्राराधनानुरागसंचितसुकृते पुरुषे । किं विशिष्टाः सत्यः ? यत्पाकमूर्छन्नवप्रेमाः। यस्य चारित्रभक्तिरागसंचितसुकृतस्य पाक उदयो यत्पाकः तेन मूर्छर्धमानं नवं प्रत्यग्रं प्रेम स्नेहो यासां तास्तथोक्ताः । “ ओं दुक्खे " इत्यनेन स्त्रियां डाप् । तत्रेति अत्रापि संबध्यते । तथा चोक्तम्
संपज्जादि णिवाणं देवासुरमणुवरायविहवेहिं । जीवस्स चरित्तादो दसणणाणप्पहाणाओ॥ सम्यक्चरित्राराधनावष्टम्भात्पुरातनानिहापि क्षेत्रे निरपायपदप्रासानात्मनो भवापायसमुच्छेदं याचमानः प्राहते केनापि कृताऽऽजवंजवजयाः पुंस्पुङ्गवाः पान्तु मां, तान्युत्पाद्य पुरात्र पञ्च यदि वा चत्वारि वृत्तानि यैः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org