________________
चतुर्थोऽध्यायः।
३२९
लाभपूजाख्यात्यपेक्षालक्षणक्षोभरहितम् । लोकेप्यमृताहारं भुक्त्वा परिणाम नेतुं यानादिक्षोभरहितत्वं बिभर्तीत्युक्तिलेशः । एतेन निर्वहणं प्रणीयते तदनुबन्धायैव तत्तादृक्चर्यासुधापानानुवर्तनार्थमेव कंचिदनियतं विधि सूत्रोक्तं तीर्थगमनादिव्यवहारं कृत्वापि विधाय। किं पुनरकृत्वेत्यपिशब्दार्थः । आमृति मरणावधि । एतेन निस्तरणं भण्यते । पिबत्युपयुङ्क्ते। अधिकशोऽ धिकमधिकं तामेव चर्यासुधाम् । एतेन साधनमभिधीयते । देवः दीव्यते स्तूयते इन्द्रायैरिति देवो महतामप्याराध्यः । स उद्यमनादिचारित्राराधनाचतुष्टयनिष्ठः । वै स्फुटं निश्चितम् । उक्तं च
मान्यं ज्ञानं तपोहीनं ज्ञानहीनं तपो हितम् ।
द्वयं यस्य स देवः स्याद् द्विहीनो गणपूरणः ॥ सैषा चरणसिद्धिमूलशुद्धात्मगव्यसिद्धिप्रकाशना । यदाहद्रव्यस्य सिद्धिश्चरणस्य सिद्धौ द्रव्यस्य सिद्धौ चरणस्य सिद्धिः । बुद्ध्वेति कर्माविरताः परेपि द्रव्याविरुद्धं चरणं चरन्तु ॥ __ अथ समन्वयः क्रियते । भवति । कोसौ ? सः। कथंभूतः ? देवः । कथम् ? वै । यः किम् ? यः पिबति । काम् ? तामेव । कथम् ? अधिकशः। कियन्तं कालस् ? आमृति । किं कृत्वा ? कृत्वापि । कम् ? विधिम् । कथंभूतम् ? कंचित् । किमर्थम् ? तदनुबन्धायैव । किं कुर्वन् ? विभ्रत् । काम् ? चर्यासुधाम् । कथंभूताम् ? दृष्ट्रज्ञातृनिजात्मवृत्तिवपुषम् । कथं कृत्वा ? अनाकुलम् । किं कर्तुम् ? पक्तुम् । किं कृत्वा ? निष्पीय । कथंभूतः सन् ? शेयज्ञातृतथाप्रतीत्यनुभवाकारैकदृग्बोधभाक् । इत्युयोतनादिचरित्राराधनापञ्चकप्रकरणम् ।
अथातश्चतुःश्लोक्या चारित्रमाहात्म्यं स्तोतुकामः प्रथमं तावत् प्ररो. चनार्थमानुषङ्गिकमभ्युदयलक्षणं मुख्यं च निर्वाणलक्षणं तत्फलमासूत्रयतिसदृग्ज्ञप्त्यमृतं लिहनहरहर्भोगेषु तृष्णां रहन् । वृत्ते यत्नमथोपयोगमुपयन्निर्मायमूर्मीनध्यन् । तत्किचित् पुरुषश्विनोति सुकृतं यत्पाकमूर्छन्नव,--- प्रेमास्तत्र जगच्छ्रियश्चलदृशेपीय॑न्ति मुक्तिश्रिये ॥१७८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org